SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ . मूलाचारेहिदो-संगृहीतः प्रात्मीकृतः सन् । एवं कुज्जा-एवं कुर्यात एवं कर्तव्यं तेन । पयत्तेण-प्रयत्नेनादरेण । कयमेवं कुर्यात् । सुत्तत्यं-सूत्रार्थ । सिक्खंतो-शिक्षमाणः । सूत्रार्थ शिक्षमाणं कुर्यात् । सूत्रार्थ शिक्षमाणेनैतकर्तव्यमिति वा । किं तत्तेन कर्तव्यमित्याहपडिलेहिऊण सम्मंदबं खेतंचकालभावे य । विणयउवयारजुत्तेणझेदव्यं पयत्तेण ॥ १७० ॥ प्रत्यालेख्य सम्यक् द्रव्यं क्षेत्रं च कालभावौ च । विनयोपचारयुक्तेनाध्यतव्यं प्रयत्नेन ॥ १७० ॥ · पडिलेडिकण-प्रतिलेख्य निरूप्य । सम्म-सम्यक् । दम-द्रव्यं शरीरगतं पिंडकादिव्रणगतं भूमिगतं चर्मास्थिमूत्रपुरीषादिकं । खेत्तं च क्षेत्रंच हस्तशतमात्रभूमिभागं । कालभावेय-कालभावौ च संध्यागर्जनविद्युदुत्पादादिसमयविवर्जनं कालशुद्धिः । क्रोधमानमाया लोभादिविवर्जनं भावशुद्धिः परिणामशुद्धिः, क्षेत्रगताशुद्धयपनयनं क्षेत्रशुद्धिः, शरीरादिशोधनं द्रव्यशुद्धिः । विणयउवयारजुत्तेण-विनयश्चोपचारश्च विनय एवोपचारस्ताभ्यां तेन वा युक्तः समन्वितो विनयोपचारयुक्तस्तेन । अज्झयव्वं-अध्येतव्यं पठितव्यं । पयत्तेण-प्रयत्नेन द्रव्यक्षेत्रकालभावान् सम्यक् प्रतिलेख्य तेन शिष्येण विनयोपचारयुक्तेन प्रयत्नेनाध्येतव्यं नोपेक्षणीयमिति ॥ १७० ॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy