________________
समाचाराधिकारः ॥ ४ ॥
१४३
त्यागन्तुकः । श्रथवाचार्यस्य गृह्यास्तं परीक्ष्य निवेदयन्ति गणिने इति ॥ १६५ ॥
एवं निवेदयते यदाचार्यः करोति तदर्थमाहआगंतुकणामकुलं गुरुदिक्खामाणवरसवासं च । आगमणदिसासिक्खा पडिकमणादी य गुरुपुच्छा आगंतुकनामकुलं गुरुदीक्षामानवर्षावासं च । आगमनदिशाशक्षाप्रतिक्रमणादयश्च गुरुपृच्छा ॥
आगन्तुक ( णामकुलं ) - आगन्तुकस्य पादोष्णस्य, नाम संज्ञा, कुलं गुरुसंतानः, गुरुः प्रव्रज्याया दाता । दिक्खामाण- दीक्षाया मानं परिमाणं । वरिसवासं च वर्षस्य वासः वर्षवासश्च वर्षकालकरणं च श्रागमर्णादसा - आगमनस्य दिशा कस्या दिश भागतः । सिक्खा - शिक्षा श्रुतपरिज्ञानं । पडिक्कमपादीय-प्रतिक्रमण आदिर्येषां ते प्रतिक्रमणादयः । गुरुपुच्छा - गुरो: पृच्छा गुरुपृच्छा । एवं गुरुणा तस्यागतस्य पृच्छा क्रियते किं तव नाम, १ कुलं च ते किं १ गुरुश्च युष्माकं कः १ दीक्षापरिमाणं च भवतः कियत् १ वर्षकालश्च भवद्भिः क्व कृतः ? कस्या दिनो भवानागतः १ किं पठितः ? किं च श्रुतं त्वया कियन्त्यः प्रतिक्रमणास्तव संजाताः, न च भूताः कियन्त्यः । प्रतिक्रमणाशब्दो युजन्तोऽयं दृष्टव्यः । किंच त्वया श्रवणीयं ? कियतोऽध्वन आगतो भवानित्यादि ॥ १६६ एवं तस्य स्वरूपं ज्ञात्वा