________________
समाचाराधिकारः ॥ ४॥
१३७ छात्रादिकं, अचित्तं पुस्तकादिक, मिश्रं पुस्तकादिसमन्वितं जीवद्रव्यं । तस्स य-तस्य च । सो प्रायरिमो-स आचार्यः । अरिहदि-अहः । अथवा तद्रव्यं प्राचार्योऽहति । सचित्ताचित्तमिश्रकं द्रव्यं यत्तेनान्तराले लब्धं तस्य साचार्योोऽर्हति वा तव्यमिति वा प्राचार्योऽपि कथं विशिष्टः एवंगुणः सोऽपि ।
कथंगुणोत आह - संगहणुग्गहकुसलो सुत्तत्थविसाग्ओपहियकिची किरिआचरणसुजुनो गाहुयआदेजायणो य ॥ संग्रहानुग्रहकुशलःसूत्राविशारदःपूथितकीर्तिः। क्रियाचरणसुयुक्तो ग्राह्यादेयवचनश्च ॥ १५८ ॥
संगहणुग्गहकुसलो-संग्रहणं संग्रहः, अनुग्रहणमनुग्रहः, कोऽनयोर्भेदो दीक्षादिदानेनात्मीयकरणं संग्रहः दत्तदीक्षस्य शास्त्रादिभिः संस्करणमनुग्रहस्तयोः कर्तव्ये ताभ्यां वा कुशलो निपुणः संग्रहानुग्रहकुशलः । सुत्तत्यविसारओसूत्रं चार्थश्च सूत्राथा तयोस्ताभ्यां वा विशारदोऽवबोधको विस्तारको वा सूत्रार्थविशारदः । पहिदकित्ती-प्रख्यातकीतिःकिरियाचरणसुजुत्तो-क्रिया त्रयोदशपकारा पंचनमस्कारावश्यकासिकानिषेधिकाभेदात् । प्राचरणमपि त्रयोदशविध पंचमहाव्रतपंचसमितित्रिगुप्तिविकल्पात् । तयोस्ताभ्यां