________________
- मूलाचारवा सुयुक्तः श्राशक्तः क्रियाचरणसुयुक्तः । गाहुयं-ग्राह्य । प्रादेज-आदेयं । ग्राह्यं प्रादेयं वचनं यस्यासौ ग्राखादेयवचनः । उक्तमात्रस्य ग्रहणं ग्राह्य एवमेवैतदित्यनेन भावेन ग्रहणं, आदेयं प्रमाणीभूतम् ।। १५८ ॥
पुनरपिगंभीरोदुद्धरिसो सूरो धम्मप्पहावणासीलो। खिदिससिसायरसरसो कमेण तं सो दुःसंपचो। गंभीरो दुर्धर्षः शूरःधर्मप्रभावनाशीलः । क्षितिशशिसागरसदृशः क्रमेणतं सतुसंप्राप्तः॥ १५९ ___ गंभीरो-अक्षोभ्यो गुणैरगाधः । दुद्धरिसो-दुःखेन धृध्यत इति दुर्धर्षः प्रवादिभिरकृतपरिभवः । सूरो-शूरः शौयोपेतः समर्थः । धम्मप्पहावणासीलो-धर्मश्च प्रभावना च धर्मस्य वा प्रभावना तयोस्ताभ्यां वा शीलं तात्पर्येण वृत्ति - र्यस्यासौ धर्मप्रभावनाशीलः । खिदि-क्षितिः पृथिवी, ससि-शशी चन्द्रमाः, सायर-सागरः समुद्रः । क्षमया क्षिति: सौ. म्येन शशी निर्मलत्वेन सागरोऽतस्तैः सरिसो-सदृशः समः क्षितिशशिसागरसदृशः । एवंगुणविशिष्टो य प्राचार्यस्तमाचार्य । कमेण-क्रमेण न्यायेनागमोक्तेन । सो दु-स तु शिष्यः । संपचो-संपाप्तः प्राप्तवानिति ॥ १५९ ॥
तस्यागतस्याचार्यादयः किं कुर्वन्तीत्याह