________________
१३.
मूलाचारआणाअणवत्था वियमिच्छत्ताराहणादणासाय । संजमावराहणावियएदेदुणिकाइयाठाणा॥१५॥ आज्ञाकोप:अनवस्थापिचामत्थ्यात्वाराधनात्मनाशश्च संयमविराधनापिचएतानितुणिकाचितानिस्थानानि
आणा-आज्ञा कोपः सर्वज्ञशासनोल्लंघनं । नन्वाज्ञाग्रहणात्कथमाज्ञाभंगस्य ग्रहणं, एकदेशग्रहणात् यथा भामाग्रहणात् सत्यभामाया ग्रहणं सेनग्रहणाद्वा भीमसेनस्य । अथवोत्तरत्राज्ञाकोपादिग्रहणाद्वा । यद्यत्राज्ञाया एव ग्रहणं स्यादुत्तरत्र कथमाज्ञाकोपादिकाः पंचापि दोषाः कृतास्तेनेत्याचार्यों भणति तस्मात्प्राकृतलक्षणबलात् कोपशब्दस्य निवृत्ति कृत्वा निर्देशः कृतः । अणवत्था--अनवस्था अतिप्रसङ्गः, अन्येऽपि तेनैवप्रकारेण प्रवर्तेरन् । अवि य-अपि च । मिच्छत्ताराहणा -- मिथ्यात्वस्याराधना सेवा । आदणासो य-आत्मनो नावश्चात्मीयानां सम्यग्दर्शनज्ञानचारित्राणां विघातः, आस्मीयस्य कार्यस्य वा। संयमविराहणाविय-संयमस्य विराधनापि च, इन्द्रियप्रसरोऽविरतिश्च । एदेदु-एतानि तु । णिकाइया (णिकाचिदाणि) निकाचितानि पापागमनकारणानि निश्चितानि पुष्टानि वा । ठाणा (णि) स्थानानि अपिचशब्दादन्यान्यपि कृतानि भवन्ति इत्यध्याहारः। एकाकिनो विहरत एतानि पंचस्थानानि भवन्त्येवान्यानि पुनर्भाग्यानीति ।