________________
१३३
समाचाराधिकारः ॥४॥ विसइया चेव-विसूचिकया वाजीर्णेन । एक्कारो निश्चयार्थी निश्चयेनैकाकी विहरन् कण्टकादिभिविषेण विसूचिकया वात्मविपत्ति प्रामोति ॥१५२ ।।
विहरंस्तावत्तिष्ठतु तिष्ठन् कश्चित् पुनर्निर्धों ऽपि द्वितीयं नेच्छतीत्याहगारविओगिद्धाओमाइल्लोअलसलुद्धाणद्धम्मो गच्छेविसंवसंतो णेच्छइ संघाडयंमंदो ॥१५३॥ गौरविको गृद्धिको मायावी अलसलुब्धनिर्धर्मः। गच्छेपि संवसन् नेच्छति संघाटकं मंदः ॥१५३ ॥
गारविओ-गौरवसमन्वितः ऋद्धिग्ससातपाप्त्या अन्यानधिक्षिपति । गिद्धीओ-गृद्धिक आकांक्षितभोगः अहिको वा । माइल्लो-मायावी कुटिलभावः । अलस-पालस्ययुक्तः उद्योगरहितः।लुद्धो-लुब्धः अत्यागशीलः । णिद्धम्मो-निधेर्मः पापबुद्धिः । गच्छेवि-गुरुकुलेपि ऋषिसमुदायमध्येऽपि त्रैपुरुषिको गणः, साप्तपुरुषिको गच्छः। संवसंतो--संवसन् तिष्ठन् । गच्छइ-नेच्छति नाभ्युपगच्छति। संघाडयं-संघाटक द्वितीयं । मंदो--मंदः शिथिलः । कश्चिनिर्धर्मोऽलसो लुब्धो मायावी गौरविकः कांक्षावान् गच्छेऽपि संवसन् द्वितीयं नेच्छति शिथिलत्वयोगादिति ॥ १५३ ॥
किमेतान्येव पापस्थानानि एकाकिनो विहरतो भव-- न्तीत्युतान्यान्यपीत्यत आह