________________
१३०
मूलाचारेयुक्तः । अथ को द्वितीयः, अगृहीतार्थस्तस्थानेन सहाचरणं नैकस्य । एत्तोएताभ्यां-गृहीतायगृहीतार्थसंश्रिताभ्यामन्यः। तदियविहारो- तृतीयविहारः। णाणुराणादो-नानुज्ञातः नाभ्युपगतो जिनवरैरर्हद्भिः। एको गृहीतार्थस्य विहारोऽपरोगृहीतार्थेन संश्रितस्य तृतीयो नानुज्ञातः परमेष्ठिभिरिति १४८
किविशिष्ट एकविहारीत्यत आहतवसुत्तसत्तएगत्तभावसंघडणधिदिसमग्गो य । पविआआगमबलिओ एयविहारी अणुण्णादो॥ तपःसूत्रसत्त्वैकत्वभावसंहननधृतिसमग्रश्च । प्रव्रज्यागमबली एकविहारी अनुज्ञातः॥ १४९ ॥ ___ तपो द्वादविधं सूत्रं द्वादशांगचतुर्दशपूर्वरूपं कालक्षेत्रानुरूपो वाऽऽगमः प्रायश्चित्तादिग्रन्थो वा सत्त्वं-कायगतंत्रस्थिगतं च बलं देहात्मकं वा भावसत्वं, एकत्वं शरीरादिविविक्ते स्वात्मनि रतिः, भावः शुभपरिणामः सत्त्वकार्य, संहननं अस्थित्वग्हढता वर्षभनाराचादित्रयं, धृतिः मनोबलं, क्षुदायबाधनं चैतासां द्वंद्वः एताभियुक्तस्तपःसूत्रसत्वैकत्वमावसंहननधृतिसमग्रः। न केवलमेवंविशिष्टः किन्तु पविया
आगमबलिओ-प्रव्रज्यागमबलवांश्च तपसा वृद्धः, आचारसिद्धान्तक्षुण्णश्च यः स एकविहारी अनुज्ञातोऽनुमतो जिनवरैरिति सम्बन्धः ॥१४९॥
न पुनरेवंभूतः