________________
समाचाराधिकारः ॥४॥ साहू-साधून् परिशेषधर्मोद्युक्तान् । अथवा स साधुः पुनरपि पृच्छति येन पूर्व याचितं । तं जाणसु-तज्जानीहि बुध्यस्व । होदि-भवति । पडिपुच्छा-प्रतिपृच्छा । यत्किचित् कार्य महत्करणीयं गुर्वादीन् पृष्ट्वा पुनरपि साधून पृच्छति साधुर्वा तत्कार्य तदेव प्रश्नावधानं प्रतिपृच्छां जानीहीति ॥ १३६ ॥
अष्टमं सूत्रं प्रपंचयन्नाहगहिदुवकरणविणएवंदनसुत्तत्थपुच्छणादीसु । गणधरवसभादीणं अणुवुचि छंदणिच्छाए । गृहीतोपकरणे विनये वंदनासूत्रार्थप्रश्नादिषु । गणधरवृषभादीनामनुवृत्तिः छंदनामच्छया ॥१३७॥ गहिदुपकरणे गृहीते स्वीकृते उपकरणे संयमज्ञानादिप्रतिपालनकारणे प्राचार्यादिप्रदत्तपुस्तकादिके। विणए विनये विनयकाले वंदण-वन्दनायां वंदनाकाले क्रियाग्रहणेन कालस्यापि ग्रहणं तदभेदात् । सुत्तत्थपुच्छणादीसु-सूत्रस्य अर्थस्तस्य प्रश्न: सादियैषां ते सूत्रार्थप्रश्नादयस्तेषु । गणधरवसभादीणं-गणपरषभादीनां आचार्यादीनां । अणुवुत्ती-अनुत्तिरनुकूलाचरणं । छन्दणं-छन्दः छन्दोऽनुर्नित्वं । इच्छाए-इच्छया। सूत्रार्थप्रश्नादिषु उपकरणद्रव्ये च गृहीते विनये वंदनायां च गणधरवृषभादीनामिच्छयानुवृत्तिश्छन्दनमिति । अथवोपकर