________________
१२०
मूलाचारे
येषां ते आतापनादयस्तेषां ग्रहणमनुष्ठानं तस्मिन्ना तपनवृक्षमूलाभ्रावकाश कायोत्सर्गादिग्रहणे । सण्णा उब्भामगादिगमणे वा संज्ञायामाहारकालशोधनादिकेच्छायां उद्भ्रश्यते मम्यते उद्भ्रम उद्भ्रम एवोपकोऽन्ययामः स आदियेषां ते उद्भ्रमकादयस्तेषां गमनं प्रापणं तस्मिन्वा, निमित्तवशादन्यग्रामगमने वा । वियेण - विनयेन नमस्कारपूर्वकप्रणामेन आइरियादिसु - आचार्य दिषां ते आचार्यादयस्तेषु श्राचार्य पर्वतक स्थविरगणधरादिषु । त्रपुच्छा - आपृच्छा । होदि भवति । कादव्वा कर्तव्या । यत्किचित्कार्य करणीयं तत्सर्वमाचार्यादीनापृच्छ्य क्रियते यदि आपृच्छा भवति तत इति ।। १३५ ।।
1
प्रतिपृच्छास्त्ररूपनिरूपणार्थमाह-
जंकिंचिमहाकज्जं करणीयं पुच्छिऊण गुरुआदी । पुणरविपुच्छ दिसाहू जाणसुहादिप डिपुच्छा || यत् किंचित् महाकार्यं करणीयं पृष्ट्वा गुर्वादीन् । पुनरपि पृच्छति साधून् तत् जानीहि भवति प्रतिपृच्छा
जंकि चि-यत्किचित् सामान्यवचनमेतत् । महाकज्जं - महत्कार्य त्वयोजनं । करणीयं - कर्तव्यमनुष्ठानीयं । पुच्छिऊण- पृष्ट्वा । गुरु आदी - गुरुरादिर्येषां ते गुर्वादयस्तान् गुरुप्रवर्तक स्थविरादीन् । पुणरवि- पुनरपि । पुच्छदि - पृच्छति । i