________________
११८
मूलाचारतिक्रान्तो यो न केवलं वचसा किन्तु मनसा कायेन च व.. तमानातीतभविष्यत्काले तस्यापराधस्य यो न कर्ता तस्य दुकृते मिथ्याकार इति ॥ १३२ ॥
अथ किं तत्प्रतिश्रवणं यस्मिन् न तथाकार इत्यत आहवायणपडिछण्णाए उवदेसे सुत्तअत्थकहणाए।
अवितहमेदत्ति पुणो पडिच्छणाए तधाकारो॥ वाचनाप्रतीच्छायायामुपदेशे सूत्रार्थकथने अवितथमेतदिति पुनः प्रतीच्छायां तथाकरः॥
वायणपडिछराणाए-वाचनस्य जीवादिपदार्थव्याख्यानस्य प्रतीच्छा श्रवणं वाचनाप्रतीच्छा तस्यां, सिद्धान्तश्रवण स्वदेसे-उपदेशे आवार्यपरम्परागतेऽविसंवादरूपे मंत्रतंत्रादिके । सुत्तप्रत्यकहणाए-सूचनात्सूक्ष्मार्थस्य सूत्रं वृत्तिवार्तिकभाष्यनिवन्धनं तस्ार्थो जीवादयस्तस्य तयोर्वा कथनं प्रतिपादनं तस्मिन् सूत्रार्थकथने कथनायां वा । अवितइं-अवितथं सत्यं एवमेव । एतदेत्ति-एतदिति यद्भट्टारकैः कथितं तदेवमेवेति नान्यथेति कृत्वा । पुणो-पुनः । (पडिछयणाए-) प्रतीच्छायां पुनरपि यच्छ्रवणं क्रियते । तधाकारो-तथाकारः । वाचनापतिश्रवणे उपदेशे सूत्रार्थयोजने गुरुणा क्रियमाणे अवितयमेतदिति कृत्वा पुनरपि यच्छूवणं तत्तथाकार इति ॥ १३३ ॥