________________
समाचाराधिकारः ॥ ४ ॥
योगग्रहणादिषु च इच्छाकारस्तु कर्तव्यः ॥
संजमणाणुव करणे - संयम इन्द्रियनिरोधः प्राणिदया च, ज्ञानं ज्ञानावरणक्षयोपशमोत्पन्नवस्तुपरिच्छेदात्मकप्रत्ययः श्रुतज्ञानं वा तयोरुवकरणं पिच्छिका पुस्तकादि तस्मिन् संयमज्ञानोपकरणहेतौ विषये वा । अगणुत्रकरणे च - अन्यस्य तपः प्रभृतेरुपकरणं कुंडिकाहारादिकं तस्मिंश्च तद्विषये च । जायणे - याचने भिक्षणे । अराणे - अन्यस्मिन् परविषये औबधादिके परनिमित्ते वा । अथवा च दृष्टव्यः । एतेषां याचने परनिमित्तमात्मनिमित्तं वा इच्छाकारः कर्तव्यः मनः प्रवर्तयितव्यं, न केवलमत्र किन्तु, योगग्रहगा। दिसुय- योगग्रहणादिषु च आतापनवृक्षमूला भ्रावकाशादिषु च किं बहुना शुभानुष्ठाने सर्वत्र परिणामः कर्तव्य इति ॥ १३१ ॥
अथ कस्यापराधे मिथ्याकारः स इत्याह
११७
जंदुक्कडंतुमिच्छातं अच्छदिदुक्कडंपुणोकादुं । भावेणयपडिकतो तस्स भवेदुक्कडे मिच्छा || यत् दुष्कृतं तु मिथ्या तत् नेच्छति दुष्कृतं पुनः कर्तुं भावेन च प्रतिक्रांतः तस्य भवेत् दुष्कृते मिथ्या ॥
यदुष्कृतं यत्पापं मया कृतं तद्दुष्कृतं मिथ्या मम भवतु, अहं पुनस्तस्य कर्ता न भवामीत्यर्थः । एवं यन्मिथ्यः दुष्कृतं कृतं तु तद्दुष्कृतं पुनः कर्तुं नेच्छेत् न कुर्यात् । भावेन च प्र