________________
१५४
मूलाचारेसधर्मणा च गुरुणा पूर्वनिसृष्टे प्रतिपृच्छा ॥१२७॥ छंदनं गृहीते द्रव्ये अगृहीतद्रव्ये निमंत्रणा भणिता। युष्माकं अहमिति गुरुकुले आत्मानसर्गस्तु उपसंपत्॥ __इटे-इष्टे सम्यग्दर्शन दिके शुभपरिणामे वा । इच्छाकारो -इच्छाकारोऽभ्युपगमो हर्षः स्वेच्छया प्रवर्तनं । मिच्छाकारो-मिथ्याकारः कायमनसा निवर्तनं । तहेव-तथैव । क, अवराहे-अपराधेशुभपरिणामे व्रतातिचारे । पडिसुणणंहि-प्रतिश्रवणे सूत्रार्थग्रहणे, तहतिय तथेति च यथैव भवद्भिः प्रतिपादितं तथैव नान्यथेत्येवमनुरागः । णिग्गमणे-निर्गमने गमनकाले । आसिया-सिका देवगृहस्थादीन् परिपृच्छय यानं पापक्रियादिभ्यो मनो निर्वर्तनं वा । भणिया-भणिताः कथिताः । पविसंते य-प्रविशति च प्रवेशकाले । णिसिही-निषेधिका तत्रस्थानभ्युपगमय्य स्थानकरणं सम्यग्दर्शनादिषु स्थिरभावो वा । पापुच्छणि या य-आपृच्छनीयं च गुर्वादीनां वन्दनापूर्वकं प्रश्नकरणं । सकज्जआरम्भ-स्वस्यात्मनः कार्य प्रयोजनं तस्यारम्भ आदिक्रिया स्वकार्यारम्भस्तस्मिन् पठनगमनयोगादिके। साम्पिणा य-समानो धर्मोऽनुष्ठानं गुरु
यस्यासौ सध तेन सर्मणा च । गुरुणा-दीक्षाशिक्षोपदेशक; तपोऽधिकज्ञानाधिकेन वा, पुव्वणिसिहम्हि-पूर्व"स्मिन्निसृष्टं प्रतिदत्तं समर्पितं यद्वस्तूपकरणादिकं तस्मिन् पूर्वनिमुष्ट वस्तुनि पुरणाभिप्राये । पडिपुच्छा-प्रतिपृ