________________
११२
मूलावारे... दुविहो-द्विविधः द्विपकारः । सामाचारो-समाचारः सम्यगाचार एव सामाचारःप्राकृतबलाद्वा दीर्घत्वमादेः। ओघोवि य --औधिक: सामान्यरूपः । पदविभागीओ-पदानां अर्थपतिपादकानां विभागो भेदः स विद्यते यस्यासौ पदविभागिकश्च । एवकारोऽवधारणार्थः । स सामाचारः औधिकपदविभागिकाभ्यां द्विविध एव ।
तयोर्भेदपतिपादनार्थमाह-दसहा-दशधा दशप्रकारः । ओघो-औधिकः । भणियो-णितः । अणेयधा-अनेकघाsनेकप्रकारः । पदविभागी य-पदविभागी च । य औधिकः स दशप्रकारोऽनेकधा च पदविभागी ॥ १२४ ॥ ___ आद्यस्य ये दशपकारास्ते केऽतः प्राहइच्छामिच्छाकारोतधाकारोयआसिआणिसिही आपुच्छापडिपुच्छाछंदणसणिमंतणायउवसंपा इच्छामिथ्याकारौ तथाकारः च आसिका निषेधिका आपृच्छा प्रतिपृच्छा छंदनंसनिमंत्रणा च उपसंपत॥
इच्छामिच्छाकारो-इच्छामभ्युपगमं करोतीति इच्छाकार प्रादरः, मिथ्या व्यलीकं करोतीति मिथ्याकारो विपरिणामस्य त्यागः, एकस्य कारशब्दस्य निवृत्तिः, समासान्तस्य वा कृदुत्पत्तिः । तथाकारो य-तथाकारश्च सदर्थे प्रतिपादिते एवमेव वचनं । आसिया-आसिका आपृच्छय गमनं ।