________________
१०८ . मूलाचारेपरित्यजनं । जावज्जीवाय-यावज्जीचं । उत्तमहं य-उत्तमा-- थै च तन्मोक्षनिमित्तमित्यर्थः । प्रथमं तावत्सर्वातिचारस्य प्रतिक्रमणं, द्वितीयं प्रतिक्रमण त्रिविधाहारस्य, तृतीयमुत्तमार्थ पानकस्य परित्यजनं यावज्जीवं चेनि तस्मिन् काले त्रिविध पतिक्रमणमेव न केवलं किन्तु योगेन्द्रियशरीरकषायाणां च । तत्र त्रिविधस्य योगस्य निग्रहो योगप्रतिक्रमणं, पंचेन्द्रियाणां च निग्रह इन्द्रियनिक्रणं, पंविधस्य च शरीरस्य च त्यागः कृशता वा शरीरपतिक्रमणं, षोडशविधकषायस्य नवविधस्य च नोकषायस्य निग्रहः कृशता कषायप्रतिक्रमणं, हस्तपादानां च ॥ १२० ॥
ननु कषायशरीरसल्लेखना आराधनायां आगमे कथिता, एतेषां पुनर्योगेन्द्रियहस्तपादानां न श्रुता, नैतत्, एतेषां चागमेऽस्तीत्याहपंचवि इंदियमुंडा वचमुंडा हत्थपायमणमुंडा । तणुमुंडेण वि सहिया दस मुंडा वाणया समए पंचापि इंद्रियमुंडा वाग्मुंडा हस्तपादमनोमुंडा । तनुमुंडेन अपि सहिता दशमुंडा वर्णिताः समये। ___पंचानामपि इन्द्रियाणांमुण्डनं खडनं स्वविषयव्यापारानिवर्तनं । वचिमुण्डा वचनस्याप्रस्तुतप्रलापस्य खण्डनं । हस्तपादमनसां वाऽसंस्तुतसंकोचप्रसारणचिन्तननिवर्तनं ततः