________________
संक्षेपप्रत्याख्याननसंस्तरस्तवाधिकारः ॥ ३॥ १०७ कानि जन्मादीनि दुःखानीत्याहणत्थि भयं मरणसमंजम्मणसमयंण विजदे दुक्खं जम्मणमरणादंक छिदिममतिं सरीरादो॥११९॥ नास्ति भयं मरणसमं जन्मसमकं न विद्यते दुःखं । जन्ममरणातंकं छिंधि ममत्वं शरीरतः ॥ १९ ॥
मरणसम मृत्युसदृशं भयं जीवस्य नान्यत्, जन्मनोत्पत्या समकं च दुःखं च न विद्यते । यतोऽतो जन्ममरणान्तकं छिघि विदारय । शरीरतश्च ममत्वं छिधि । शरीरे सति यतः सर्वमेतदिति ॥ ११९ ॥
त्रीणि प्रतिक्रमणानि अाराधनायामुक्तानि तान्यत्रापि संक्षिप्ते काले सम्भवन्तीत्याह-- पढमं सब्वादिचारं विदियं तिविहं भवे पडिकमणं पाणस्स परिचयणं जावजीवायमुत्तमटुं च ॥१२० प्रथमं सर्वातिचारं द्वितीयं त्रिविधं भवेत् प्रतिक्रमणं पानस्य परित्यजनं यावज्जीवमुत्तमार्थं च ॥ ___ क्रमप्रतिपादनार्थ चैतत् । पढमं-प्रथमं । सव्वदिचारसर्वातिचारस्य तपःकालमाश्रित्य दोषविधानस्य । विदियं द्वितीयं । तिविहं-त्रिविधाहारस्य । भवे-भवेत् । पडिक्कमणं अतिक्रमणं परिहरणं । पाणस्स-पानकस्य । परिच्चयणं