________________
१०६
मूलाचारे
र्थानां वीतमोहानां च या गतिः सा मे भवतु सर्वदा नान्यद्याचेऽहमिति ॥ ११६ ॥
सर्वसंगपरित्यागं कृत्वा, चतुर्विधाहारं च परित्यज्य जिनं हृदये कृत्वा किमर्थ म्रियते चेदतः प्राह
एगं पंडियमरणं छिंदह जाईसयाणि बहुगाणि ॥ तं मरणं मरिदव्वं जेण मदं सुम्मदं होदि ॥ ११७ ॥ एकं पंडितमरणं छिनत्ति जातिशतानि बहूनि । तन्मरणेन मर्तव्यं येन मृतं सुमृतं भवति ॥ ११७ ॥
इयं च व्याख्यातार्था गाथेति । यतः एकं पंडितमरणं जातिशतानि बहूनि छिनत्ति येन च मरणेन न पुनम्रियते किन्तु सुमृतं भवति पुनर्नोत्पद्यते तन्मरणमनुष्ठानीयमिति ॥ ११७ ॥ मरणकाले समाधानार्थमाह
एगम्हि य भवगहणे समाहिमरणं लहिज्ज जदि जीवो सत्तट्टभवग्गहणे णिव्वाणमणुत्तरं लहदि ॥ ११८ ॥ एकस्मिन् भवग्रहणे समाधिमरणं लभते यदि जीव: सप्ताष्टभवग्रहणे निर्वाणमनुत्तरं लभते ॥ ११८ ॥
एकस्मिन् भवग्रहो समाधिमरणं यदि लभते जीवस्ततः सप्ताष्टभवग्रहणेषु व्यतीतेषु निश्चयेन निर्वाणमनुत्तरं लभते यतस्ततः समाधिमरणमनुष्ठीयते इति । शरीरे सति जन्मादीनि दुःखानि यतस्ततः सुमरणेन शरीरत्यागः कर्तव्यः ॥ ११८ ॥