________________
संक्षेपप्रत्याख्यान संस्तरस्तवधिकारः ॥ ३ ॥ १०५
तं सव्वजविसरणं णंददु जिणसासणं सुइरं ।। ११५ यदालीना जीवाः तरंति संसारसागरं अनंतं । तत् सर्वजीवशरणं नंदतु जिनशासनं सुचिरं ॥ ११५ ॥
जं यत । आलीणा घालीना श्राश्रिताः । जीवा प्राणिनः तरंति लवंते पारं गच्छति । संसार सायरं - संसरणं संसारः स एव सागरः समुद्रः संसारसागरस्तं । श्रणंतं न विद्यतेऽन्तो यस्यासौ अनन्तस्तं अपर्यन्तं । तं तत् । सव्वजीवसरणं सर्वे च ते जीवाश्च सर्वजीवास्तेषां शरी सर्वजीवशरणं । ददु नन्दतु वृद्धिं गच्छतु । जिएसासगां जिनशासनं । सुइरं सुचिरं सर्वकालं । यज्जिनशासनमाश्रिताः जीवाः संसारसागरं तरन्ति तत्सर्वजीवशरणं नन्दतु सर्वकालं यदनुष्ठानान्मुक्तिर्भवति तस्यैव नमस्कार करणं योग्यमिति ॥ ११५ ॥
1
श्राराधनाफलार्थमाह
जा गदी अरहंताणं णिट्ठिट्ठाणं च जा गदी । जा गदी वीदमोहाणं सा मे भवदु संस्सदा ॥ ११६ या गतिः अर्हतां निष्ठितार्थानां च या गतिः । या गतिः वीतमोहानां सा मे भवतु शश्वत् ॥ ११६॥
व्याख्यातार्था गाथेयं । श्रईतां च या गतिः निष्ठिता