________________
संक्षेपप्रत्याख्यानसंस्तरस्तवाधिकारः ॥३॥ १०१ “पणामं--प्रणामं-स्तुति । जिणवरबसहस्स-जिनानां वरा प्रमतादिक्षीणकषायपर्यन्तास्तेषां वृषभः प्रधानः सयोगी अयोगी सिद्धो वा तस्य जिनवरषभस्य । वड्ढमाणस्स--वर्धमानस्य । सेसाणं च--शेषाणां च । जिणाणं-जिनानां सर्वेषांच। सगणगणधराणं च--सह गणेन यतिमुन्यध्यनगारकदम्बकेन वर्तते इति सगणास्ते च ते गणधराश्च सगणगणधरान तेषां च श्रीगोतमप्रभृतीनां च । सव्वेसिं--सर्वेषां । एषोहं ग्रन्थकरणाभिप्रायः, जिनवरषभस्य वर्धमानस्य शेषाणां च जिनानां च सर्वेषां च सगणगणधराणांच प्रणामं कुर्वे अथवा सगणगणधराणां जिनानां विशेषणं दृष्टव्यमिति ॥ १०८॥
नमस्कारानन्तरमुररीकृतस्यार्थस्य प्रकटनार्थमाहसव्वं पाणारंभ पच्चक्खामि अलीयवयणं च । सव्वमदत्वादाणं मेहूणपरिग्गहं चेव ॥ १०९ ॥ सर्वप्राणारंभं प्रत्याख्यामि अलीकवचनं च । सर्वमदत्तादानं मैथुनपरिग्रहौ चैव ॥ १०९॥
प्रथमं तावत् व्रतशुद्धिं करोमीति । सव्वं पाणारम्भ-- सर्व निरवशेषं प्राणारम्भं हिंसां । पच्चक्खामि प्रत्याख्यामि स्यजामि । अलीयवयणं च-व्यलीकवचनं च मिथ्यावादं च । सव्व--सर्च । अदत्तादाणं--प्रदत्तादानं । मेहुण--मैथुनं परिग्गहं चैव--परिग्रहं चैव । प्राणारभ्भ, मिथ्यावचनं, अदत्तादानं, मैथुनपरिग्रहौ च प्रत्याख्यामीति ॥१०६ ॥