________________
१००
मूलाचारेगतिः, या च निष्ठितार्थानां वीतमोहानां च या, सा मे भवतु सर्वदा नान्यत् किंचिंद्याचेऽहमिति । नात्र पुनरुक्तादयो दोषाः पर्यायार्थिशिष्यप्रतिपादनात् तत्कालयोग्यकथनाच्च । नापि विभक्तयादीनां व्यत्ययः प्राकृतलक्षणेन सिद्धत्वात् । छन्दोभंगोऽपि न चात्र गाथाविगाथाश्लोकादिसंग्रहात, तेषां चात्र प्रपचो न कृतः ग्रन्थबाहुल्यभयात् संक्षेपेणार्थकथनाच्चेति ।। १०७ ।। इत्याचारवृत्तौ वसुनन्दिविरचितायां द्वितीयः परिच्छेदः॥२॥
संक्षेपप्रत्याख्यानाधिकारः॥३॥
बृहत्पत्याख्यानं व्याख्यातमिदानीं यदि भृशमाकस्मिके सिंहव्याघ्राग्निव्याध्यादिनिमित्तं मरणमुपस्थितं स्यात् तत्र कस्मिन् प्रथे भावना क्रियते इति पृष्टे तदवस्थायां ययोग्य संक्षेपतरं प्रत्याख्यानं तदर्थ तृतीयमधिकारयाहएस करोम पणाम जिणवरवसहस्स वड्ढमाणस्सा सेसाणं च जिणःणं सगणगणधराणंच सव्वेसिं॥ एष करोमि प्रणामं जिनवरवृषभस्य वर्धमानस्य । शेषाणां च जिनानां सगणगणधराणां च सर्वेषाम् ॥
एम- एष आत्मनः प्रत्यक्षवचनमेतत एषोऽहं अतिसंक्षेपरूपप्रत्याख्यानकथनाद्यतः एवं च कृत्वा नात्र संग्रहवाक्य कृतं सामथ्र्यलब्धत्वात् तस्येति । करेमि- करोमि कुर्वे वा