SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः विद्धि-वद्धावणाईसु संभरे नेहनिब्भरं । सम्माणेज्जा जहाजोग्गं, वत्थं तंबोलमाइणा ॥१३६॥ वृद्धि-वर्धनादिषु तत्र वृद्धिः विवाहादिका, वर्धनं पुत्रप्रसवादिकम् आदिशब्दात शेषोत्सवपरिग्रहः, 'संभरे' त्ति स्मरेत्, स्नेहनिर्भर बन्धुप्रीत्या, स्मृत्वा च सन्मानयेत = पूजयेत्, यथायोग्यं = यथार्हम्, वस्त्र-ताम्बूलादिना; मकारोऽलाक्षणिक इति श्लोकार्थः ॥१३६॥ द्रव्यकृत्यकरणमभिधाय साम्प्रतं भावकृत्यकरणमाहसुत्तं सम्मं पढंताणं विहाणेण य वायणा । . सुत्तऽत्थाणं पयत्थाणं, धम्मकज्जाण पुच्छणा ॥१३७॥ सूत्र प्रकरणादिकम्, सम्यक् भावप्रधानतया, पठताम्=अधीयानानाम्, विधानेन च वाचना=परिपाटीदानम् चः पूरणे, सूत्राऽर्थयोः=वाच्य-वाचकयोः, पदार्थानां जीवाऽजीवादीनाम् धर्मकार्याणां=धर्मप्रयोजनानां चैत्यवन्दनादीनाम्, प्रच्छना=पृच्छा ‘कीदृशमिदं सूत्रम् ? कीदृग्वाऽस्याऽर्थः ? कीदृशोऽयं पदार्थः ? किं निर्वहतीदं धर्मप्रयोजनम् ? इत्येवं साधर्मिकः जिज्ञासापरीक्षानिर्वाहणार्थं प्रष्टव्य इति श्लोकार्थः ॥१३७।। तथा - परियट्टणा-ऽणुपेहाओ जहासत्तीए कारए । तहा धम्मकहा कुज्जा संवेगाई जहा जणे ॥१३८॥ परावर्तनानुप्रेक्षे =गुणनिका-चिन्तनिके, यथाशक्ति (क्त्या)= यथासामर्थेन, कारयेत्=विधापयेत् । तथा धर्मकथाः कुर्यात् यथा संवेगादयो जन्यन्ते=उत्पाद्यन्ते, शक्तौ सत्यामिति श्लोकार्थः ॥१३८॥ किञ्च-. भावणाए पहाणाए धम्मट्ठाणं वियारए । बहुस्सुयसयासाओ विसए संपहारए ॥१३९॥ भावनया=अन्तर्वासनया, प्रधानया सर्वोत्कृष्टया, धर्मस्थानं= धर्मप्रयोजनम्, विचारयेत् ='किमेतदेवमन्यथा वा ? इति, विचारयतां च यदि सन्देहो भवति ततो बहुश्रुतसकाशात् विशिष्टागमवेदिपाश्र्थात्, विषये स्थाने, सम्प्रधारयेद् व्यवस्थापयेदिति श्लोकार्थः ॥१३९॥ अन्यच्च १. ला. भावनया ॥ २. ला. 'दृश्णुपे ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy