________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
पावयणम्मि निग्गंथे तहा सम्मं थिरावए । जहा सक्का न खोभेउं देवेहिं दाणवेहिं वा ॥ १४०॥
प्रवचने= शासने, नैर्ग्रन्थे = अर्हत्सम्बन्धिनि, तथा = तेनैव प्रकारेण, सम्यग् =यथावस्थिततया 'एसणं देवाणुप्पिया ! निग्गंथे पावयणे अट्ठे अयं परमट्ठे, सेसे अणट्टे' इत्यादि भगवतीप्रभृतिसिद्धान्तवाक्यस्मारणतः स्थिरीकुर्यात् । कथं यथा न शक्यते = न पार्यते, क्षोभयितुं देवैः = वैमानिकैः, दानवैश्च = भवनपतिभिः चकाराच्छेषदेवैर्विद्याधरादिभिश्चेति श्लोकार्थः ॥१४०॥
तथा
तद्यथा
पियाणमणुकूलाणमब्भत्थाणं भवे भवे । लोगागमविरुद्धाणं सेवणार निवारणा ॥ १४१ ॥
प्रियाणाम् = अभीष्टानाम्, अनुकूलानां = मनोभिरुचितानाम्, अभ्यस्तानां = भूयो भूयोऽनुष्ठितानाम् भवे भवे = जन्मनि जन्मनि, लोकागमविरुद्धानां = जनप्रवाहसिद्धान्तदूषितानाम्, सेवनायाः = अभ्यासस्य, निवारणं = निषेधनं यथा - इदमिदं च लोकसिद्धान्तगर्हितं तस्मान्मा कार्षीः, इति श्लोकार्थः ॥ १४१ ॥
अन्यच्च
६९
धम्माणुट्ठाणमग्गम्मि हिए लोयाण दोह वि । पमायकम्मदोसेणं सीयंताणं तु चोयणा ॥ १४२॥
धर्मानुष्ठानमार्गे = धर्मकृत्यपंथि, हिते = अनुकूले, लोकयोर्द्वयोः = इहलोक - परलोकयोः, प्रमादकर्मदोषेण = धर्मशैथिल्यजनितमलदुष्टतया, सीदतां = शिथिलभावमनुभवताम्, चोदना = प्रेरणा, कर्तव्येति शेषः, साधर्मिकाणामिति सर्वत्र योजनीयमिति श्लोकार्थः ॥१४२॥
प्रमादस्वरूपं प्रेरणां च श्लोकद्वादशकेन सूत्रकृत् प्रतिपादयति
माओ य मुणिदेहिं भणिओ अट्ठयओ ।
अण्णाणं संसओ चेव- मिच्छानाणं तहेव य ॥ १४३ ॥
गोदोसोसईभंसो धम्मम्मि य अणायरो |
जोगाणं दुप्पणीहाणं अट्ठहा वज्जियव्वओ || १४४॥
प्रमादश्च मुनीन्द्रैः=तीर्थकृद्गणधरैः, भणितः = प्रतिपादितः, अष्टभेदः = अष्टप्रकारः, अज्ञानम्=अज्ञता; समस्तदोषनिधानं चैतद् उक्तं च