________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
यः कश्चिदेतेष्वपि मन्दस्नेहो लक्ष्यते स कथम्भूतो ज्ञेयः ? इत्यत आहकिमण्णाणेण सो अंधो ? किं मोहविसघारिओ ? ।
किं सम्मत्ते वि संदेहो, मंदनेहो इमेसु जो ॥१३३॥
'किम्' इति प्रश्ने, अज्ञानेन=अज्ञतया, 'स'इति यो मन्दस्नेहः, अन्धः चक्षुविकलः, किंमोहविषयघारित:=मोहनीयगरलव्यातः, किं सम्यक्त्वेऽपि सन्देहः=दर्शनेऽपि सन्दिग्धता, यत उक्तम्
साहम्मिइ घरि आइ यइ, जासु न वट्टइ नेहु । तसु जाणेज्जसु नीसुइणि, सम्मत्ति वि संदेहु ॥३४४॥
यः किं ? यो मन्दस्नेहः अल्पप्रीतिः, इमेषु एतेषु सार्मिकेष्विति सम्बध्यत इति श्लोकार्थः ॥१३३॥
किमित्यतिगौरवं तेषु प्रतिपाद्यते ? इत्यत आह
गत्तं पुत्ताय मित्ता य बंधवा बंधणं धणं ।
दारा वि दोग्गइं देंति, संधारो धम्मबंधवा ॥१३४॥
'गत्तं' ति गर्तः= अवटः, प्राकृतत्वाल्लिङ्गव्यत्ययः, पुत्राश्च= सुताः, मित्राणि च=सुहृदः, चकारस्य व्यवहितसम्बन्धाद्, बान्धवाश्च सहोदराः, प्रथम चकारश्च शेषस्वजनसंसूचनार्थः, बन्धनं संयमनं, धनं द्रव्यम् । यद्वा गात्रं शरीरं बन्धनमित्यत्र सम्बध्यते । दारा अपि= कलत्राण्यपि, दुर्गति=कुगतिम् ददति= प्रयच्छन्ति, अतः संधारः =सन्धीरणं धर्मबान्धवाः साधार्मिका इति श्लोकार्थः ॥१३४॥
कस्माद्धर्मबान्धवाः सन्धीरणं भवन्तिं ? इत्यत आहधम्मबंधूण सुद्धाणं संबंधेणं तु जे गुणा ।
दुग्गईओ निरंभंति, धुवं ते दिति सुग्गइं ॥१३५॥
धर्मबन्धूनां= धर्मभ्रातृणाम्, शुद्धानां निरवद्यानाम्, सम्बन्धेन सम्पर्केण, तुशब्दादनुमोदनकरणादिपरिग्रहः, ये गुणाः=ज्ञानादयः, दुर्गती: नरक-तिर्यक्-कुमानुषकुदेवत्वरूपाः, निरुम्भन्ति=निरुन्धन्ति, ध्रुवं निश्चितम्, ते पूर्वोक्ताः, ददति सुगति= सुमानुषत्व-सुदेवत्व-सिद्धिरूपामिति श्लोकार्थः ॥१३५॥
यस्मादेवं तस्मात्
१. ता. सो अण्णाणेण किं अंधो ? ।। २. ता. जं ॥ ३. ला. 'नसम्बन्धनार्थः ।