________________
६६
मूलशुद्धिप्रकरणम्-द्वितीयो भागः पिंडविसोही समिई, भावण पडिमा य इंदियनिरोहो ।
पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु ॥३४३॥ (ओघ. नि. भागा. ३) इत्येवंरूपं विधानं कुर्वतीनामिति शेषः, कालोचितं दुःषमाकालयोग्यं कृत्यमिति भावः, दुष्करकारिकाणां= जघन्यकालेऽप्येवंविधदुष्करसदनुष्ठानकारिकाणाम्, आर्याणां= साध्वीनां कुर्यात् विदध्यात्, वरनिज्जरं प्रधानं निर्जराहेतुः, इति:=प्रकरणपरिसमाप्ताविति वृत्तार्थः ॥१३०॥ श्रीदेवचन्द्राचार्यविरचिते मूलशुद्धिविवरणे साध्वीस्थानकं पञ्चमं समाप्तम् ।
[ श्रावककृत्याख्यं षष्ठस्थानकम्] व्याख्यातं पञ्चमं स्थानकम् । तदनन्तरं षष्ठमारभ्यते । अस्य च पूर्वेण सहाऽयमभिसम्बन्धः-पूर्वत्र साध्वीकृत्यमुक्तम् तत्र सङ्घमध्ये साध्वीनामनन्तरं श्रावका उक्ताः, अतस्तत्स्थानकम, तस्य चाऽऽदिसूत्रमिदम्
तित्थेसराणं बहुमाण-भत्ती सत्तीए सत्ताण दया विरागो । ।
समाणधम्माण य वच्छलत्तं जिणागमे सारमुदाहरंति ॥१३१॥
तीर्थेश्वराणां तीर्थाधिपतीनाम्; तत्र तीर्यतेऽनेन संसारसागर इति तीर्थं चतुर्विधश्रीश्रमणसङ्घरूपं प्रथमगणधररूपं वा, उक्तं च
"तित्थं चाउवण्णो समणसंघो पढमगणहरो वा'
अतस्तेषाम् ‘बहुमाणभत्ति'त्ति बहुमान-भक्ती=आन्तरप्रीति-बाह्यक्रियारूपे, 'सत्तीए' त्ति शक्त्या, सत्त्वानां=प्राणिनाम्, दया रक्षणबुद्धिः, विरागः=निरभिष्वङ्गता, चकारस्य व्यवहितसम्बन्धात् समानधर्मवात्सल्यं च सार्मिकवत्सलता च, जिनागमे=अर्हत्सिद्धान्ते, सारं=प्रधानमः एतदेव पूर्वोदितं सर्वधर्मानुष्ठानसारमिति -भावः, उदाहरन्ति=कथयन्तीति वृत्तार्थः ॥१३१॥ ..
यस्मादेवं तस्मात् साधर्मिकप्रीतौ यतितव्यमिति, अत आहजिणाणं मण्णमाणेणमुदारमणसा तओ । साहम्मियाण वच्छल्लं कायव्वं पीतिनिब्भरं ॥१३२॥
जिनाज्ञां तीर्थकरादेशम्, मन्यमानेन एवमेतदिति प्रतिपद्यमानेन, उदारमनसा= विस्तीर्णचित्तेन, ततः = तस्मात्, सार्मिकाणां = समानधर्मिकाणाम्, वात्सल्यं = भोजनादिदानप्रतिपत्तिः कर्तव्यं = विधेयम्, प्रीतिनिर्भरम् = आन्तरबहुमानसंयुक्तमिति श्लोकार्थः ॥१३२॥ -