________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
तत्थ य सागरमेगं अवसेसं भुंजिऊण सो तत्तो । भमिही चुओसमाणो अणोरपारे भवे भीमे ॥९७।। जं तित्थयरगुणाणं तेण अभव्वेण हीलणा विहिया । तेण अणंताणंतं अणुभविही दारुणं दुक्खं ॥९८॥ सुयिरेण वि कालेणं न य सो पाविहिइ सिद्धिवरसोक्खं । जेण अभव्वो पावो पावमई घोरपरिणामो ॥१९॥ संसारियं पि सोक्खं जवमेत्तं पि हु न तस्स किर होही । कालमणंतं जाव उ कया जिणासायणा जम्हा ॥१००॥ इय एसो संगमओ कहिओ तुब्भं गुणाण हीलाए । जो भमिही संसारं, तम्हा गुणहीलणं चयह ॥१०१॥
॥ सङ्गमकाख्यानकं समाप्तम् ॥३७॥ पूर्वोक्तमेवाऽर्थं निगमयन् कृत्यशेषमाहगुणवंतीण तो हीलं निखिसं च वज्जए । निवारिज्ज जहाथामं दुस्सीला पावकारिणो ॥१२९॥
गुणवतीनां पूर्वोक्तप्रकारेण गुणयुक्तानाम्, तस्मात् हीलाम् अवज्ञारूपाम्, निन्दां= 'धिगेताः शौचादिवर्जिताः' इत्येवम्प्रकाराम, खिसां= "धिग् मुण्डिताः' इत्येवम्भणनस्वभावाम्, वर्जयेत् परिहरेत् । ततश्च निवारयेत् निषेधयेत् [यथास्थामं यथाशक्ति ?], दुःशीला:= दुःस्वभावा द्यूतकरादयः, पापकारिणः =शीलभङ्गादिपातकविधायिन इति श्लोकार्थः ॥१२९॥
इदानीं समस्तप्रकरणोपसंहारमुपदेशसर्वस्वं च वृत्तेनाऽऽह
महव्वया मूलगुणाविसुद्धा, पिंडव्विसोहीपभिई विहाणं । कालोचियं दुक्करकारियाणं, अज्जाण कुज्जावरनिज्जरं ति ॥१३०॥
महाव्रतानि=प्राणातिपातविरमणादीनि रात्रिभोजनविरमणपर्यवसानानि, मूलगुणानि मूलगुणत्वेन प्रसिद्धानि, विशुद्धानिकलङ्करहितत्वान्निर्मलानि । प्राकृतत्वात् पुंलिङ्गनिर्देशः । तथा पिण्डविशुद्धिप्रभृति=पिण्डविशुद्धयादि, तत्र पिण्डविशुद्धिर्द्विचत्वारिंशद्दोषविशुद्धपिण्डादिग्रहस्तत्प्रभृति तदादि,
१. ता. ति ॥ १३०॥ संजईणं ति पंचमं ॥
मूल. २-९