________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
जिणागमाणुसारेण, वज्जेयव्वा सुदूरओ । सभूमियानिओगेण, कायव्वमुचियं तहा ॥१७५॥
=
जिनागमानुसारेण=जिनसिद्धान्तकथितानुवर्तनेन 'वज्जेयव्व' त्ति वर्जनीयाः = परिहर्तव्याः, सुदूरतः दूराद्दूरेणेति तथा स्वभूमिकानियोगेन = निजावस्थासामर्थ्येन, 'कायव्वं' ति कर्तव्यं = विधेयम् उचितं = यद्योग्यम्, तथा' इति यथा वर्जनं कर्तव्यं तथोचितमपि कर्तव्यम्, अयं भाव इति श्लोकार्थः ॥१७५॥
पूर्वं वर्जनं महदादरेण प्रतिपाद्य कस्मादुचितमपि तथोच्यते ? इति प्रश्ने श्लोकमाह
पुव्वं तित्थंकरेणाऽवि, कयं तित्थं चउव्विहं ।
नतं पुण्ण विणा ताहिं, पहाणंगमिणं पि हु ॥१७६॥
२०५
पूर्वम्=आदौ तीर्थकरेणाऽपि कृतं = निर्वर्तितम्, तीर्थं=सङ्घरूपम्, चतुर्विधं= चतुःप्रकारम्, न=नैव तत् पूर्णं विना = विनैव, ताभिः = स्त्रीभिः, अतः प्रधानाङ्गं= सारावयवं तीर्थस्येति भावः, इदमपि = स्त्रीलक्षणमिति श्लोकार्थः ॥ १७६ ॥
यतः
चाउव्वण्णस्स संघस्स, मज्झे सुव्वंति साविया । सद्दंसणेण नाणेण, जुत्ता सीलव्वएहि य ॥ १७७॥
यतश्चतुर्वर्णस्य=साधु-साध्वी - श्रावक-श्राविकालक्षणस्य, सङ्घस्य तीर्थस्य, मध्ये श्रूयन्ते = समाकर्ण्यन्ते, श्राविकाः = श्रमणोपासिकाः सद्दर्शनेन = प्रधानसम्यक्त्वेन, ज्ञानेन= श्रुतज्ञानादिना, युक्ताः = समेताः, शीलव्रतैश्च = चारित्ररूपैरिति श्लोकार्थः ॥१७७॥ कास्ताः श्राविकाः श्रूयन्ते सङ्घमध्य इति प्रतिपादनार्थं श्लोकमाह
रेवई देवई सीया, नंदा भद्दा मणोरमा ।
सुभद्दा सुलसाईया, पायडा तियसाण वि ॥ १७८॥
रेवती देवकी सीता नन्दा भद्रा मनोरमा सुभद्रा सुलेसादिकाः ।
तत्र रेवती=भगवदौषधदात्री, देवकी = वासुदेवमाता, सीता = रामभार्या, नन्दा अभयकुमारजननी, भद्रा = धन्यकजनेता मनोरमा = सुदर्शनप्रिया, सुभद्रा = चम्पायां कृतशासनोत्सर्पणा, सुलसा = देवकीसुतप्रतिपालयित्री पूर्वप्रतिपादिता वा, आदिशब्दाद् नर्मदा सुन्दरी - अभय श्रीप्रभृतयः । कियन्त्यः शृङ्गग्राहं कथ्यन्ते 'पायड' त्ति प्रकटयः=प्रसिद्धाः, १. ला. 'व्यमिति भावार्थः ॥ १७५ ॥ २. ला. 'साद्याः ॥ ३. ला. धन्यजनयित्री ॥