________________
२०४
मूलशुद्धिप्रकरणम्-द्वितीयो भागः इति श्लोकार्थः ॥१७१॥ यतश्चैवं तस्मात् एवं तत्तं वियास्ति तत्तो विरत्तचित्तओ । दूरं नारी परिच्चज्ज धम्मारामे रमे नरो ॥१६२।।
एवम् अनेन प्रकारेण, तत्त्वं= परमार्थं स्त्रीणां सूत्रकारोदितं. तं श(तच्छ ?)रीरा वयवासारतारूपं वा यथा
गलल्लालाकरालेऽपि दृश्याऽस्थिस्थानसङ्कले । - मुखाख्ये विवरे सारं मोहात् किमपरं भवेत् ॥३८३॥ मांसासृक्पूतिपिण्डेषु, चर्मणा वेष्टितेषु च । पयोधरेषु रागान्धा ! ब्रूत किं रामणीयकम् ? ॥३८४॥
इत्यादि विचार्य= परिभाव्य, ततश्च दूरं विप्रकृष्टम्, नारी =ललनाम्, परित्यज्य= त्यक्त्वा । धर्मारामे= धर्मोपवने, रमेत-क्रीडेत । यतस्तत्र विशेषतो नयनमनांस्यारमन्ति, नर:=पुमानिति श्लोकार्थः ॥१७२॥
किमेतत् सर्वमेवम् ?, अन्यथा वा ? इति परप्रश्ने सत्याह
एमेयं नऽन्नहा सम्मं, भाविज्जंतं जहट्ठियं ।
कीवाणं कायराणं च, राग-द्दोसवसाण य ॥१७३॥
प्राकृतत्वादेवमेतन्नाऽन्यथा सम्यग्निश्चितम्, भाव्यमानं= पर्यालोच्यमानम्, यथास्थितं = यथावत्स्वरूपम्, क्लीबानां स्त्रीदर्शनादिष्वपि विह्वलीभवताम् कातराणां=निःसत्त्वानाम्, राग-द्वेषवशकानां च तद्वशवर्तिनाम्, ये त्वेतद्विपरीतास्तेषां स्त्रीसम्बन्धेऽपि न चित्तक्षोभः सम्पद्यते, यत उक्तमागमे-जे णं सव्वुत्तमे पुरिसे से णं पच्चंगुब्भडजोव्वण-सव्वुत्तम-रूवलावण्ण-कंतिकलियाए वि इत्थीए सन्निज्झे वाससयं पि वसेज्जा नो णं मणसा वि तं इत्थियं अभिलसेज्जा ()
अतस्तस्यै तदन्यथाऽपि सम्भाव्यत इति श्लोकार्थः ॥१७३॥ किमेतद्दोषजालं स्त्रीणामेवोच्यते आहोस्वित् पुरुषाणामपि ? इति प्रश्ने श्लोकमाह
तं च तुल्लं नराणं पि, जं इत्थीणं सवित्थरं ।। दंसित्ता दोसजालं तु, दंसियं समए समं ॥१७४।।
★ तच्च = पूर्वोक्तं स्त्रीदोषजालम्, तुल्यं समम्, नराणामपि यत् स्त्रीणां सविस्तरं दर्शयित्वा दोषजालं= दूषणकदम्बकम्, दर्शितं कथितम्, समये सिद्धान्ते, समं=तुल्यमिति श्लोकार्थः ॥१७४॥ ततश्च- *
__१. ला. सत्यम् ? अ° २. उत्थानिकेयं ला. संज्ञकप्रतावेवोपलब्धा | ३. ★★ एतच्चिह्नद्वयान्तर्गत पाठः केवलं ला. संज्ञकप्रतावेवोपलभ्यते ॥