SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम् - द्वितीयो भागः महासत्तो जहा कोइ सूरो वीरों परक्कम । धरिसित्तातहिं सीहं लीलाए लेइ ताणि वि ॥ १०७॥ = महासत्त्वः=प्रधानसत्त्वः, यथा कोऽपि = अनिर्दिष्टनामा, शूरः = सिंहवद्, वीरः - विक्रान्तः, पराक्रमः=महोत्साहयुक्तः, धर्षयित्वा तद्धैर्यनिष्फलीकरणेन 'तहिं' ति तत्र, सिंहं=मृगारिम्, लीलया = हेलया, लाति = गृह्णाति, तान्यपि = रत्नानीति श्लोकार्थः ॥१०७॥ दान्तिकमाह एवं धीरा य गंभीरा भावियप्पा जिणागमे । अज्जाकज्जाइ काऊणं सज्जो अज्जिति निज्जरं ॥ १०८ ॥ एवम्=अमुना प्रकारेण, धीराः = अक्षोभ्याः च = शब्दोऽवधारणे, तं चाऽग्रे योजयिष्यामः, गम्भीराश्च = अलब्धमध्याः, भावितात्मानः जिनागमे = जिनप्रवचने, आर्याकार्याणि कृत्वा सद्यः = तत्क्षणादर्जयन्ति निर्जरामिति श्लोकार्थः ॥१०८॥ कृत्यमेव श्लोकत्रयेणाऽऽह दुस्सीला सावया चोरा पच्चवायभयं जहिं । संजणं तहिं खित् विहारो वीरवारिओ ॥ १०९ ॥ दुःशीला:=कुत्सितशीलाः, उक्तं च जूँ इयर - मिंठ- सोला चट्टा उब्भामगाइणो जे य । एए होंति कुसीला, वज्जेयव्वा पयत्तेणं ॥ ३२७॥ सोला:=तुरगाकर्षकाः ३ श्वापदाः=सिंह-व्याघ्र-भुजङ्गादयः, चौराः = प्रतीताः प्रत्यपायभयम् = अनर्थभयम्, 'जहिं' ति यत्र, संयतीनाम्, तत्र क्षेत्रे = स्थाने, विहारो वीरवारितः =चरमतीर्थकरनिषिद्धः ॥१०९॥ कीदृशिक्षेत्रे विहारं कारयेत् 2 - आगंतुगाइभत्तम्मि सज्झाए संजमे हिए । साहुणीणं विहाणेणं, विहारं तत्थ कारए ॥११०॥ १. ला. ता. धीरो ॥ २. ता. 'ता महासीहं ॥। ३. सं. वा.सु.पु. तद्वीर्य ॥ ४. सं. वा. सु. पु. कूईयर ॥ ५. सं.वा.सु.पु. 'हारं तत्र का ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy