________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः आगन्तुकादिभक्ते = प्राघूर्णकादिभक्ते आदिशब्दात् सैद्धान्तिकोद्यतविहारादिग्रहः, स्वाध्याये= पञ्चप्रकारे, संयमे सप्तदशविधे, हिते तद्गुणकारके क्षेत्र इति गम्यते, साध्वीनां (विधानेन)विहारं तत्र कारयेदिति ॥ तत्राऽपि कीदृग्वसतिविधेया ?
सम्मं समंतओ गुत्ता गुत्तदारा सुसंवुया । सेज्जा अज्जाण दिज्जा हि कुज्जा तत्थ जहोचियं ॥१११॥
सम्यग् यथा भवत्येवम्, समन्ततः सर्वदिक्षु, गुप्ता=वृत्तिवरण्डकाद्यावृता, गुप्तद्वारा =कपाटदिभिः, सुसंवृताने विस्तीर्णा, शय्या वसतिः, 'अज्जाण दिज्जाहि' त्ति आर्याणां दद्यात् । ततः कुर्यात् तत्र यथोचितमिति श्लोकत्रयार्थः ॥१०९-१११॥
सम्प्रति यादृक् शय्यातरो विधेयस्तदाहगंभीरे सत्तवंते य भीयसहे तहेव य । मद्दविए कुलउत्ते अज्जासिज्जायरे विऊ ॥११२॥
गम्भीरः अलब्धमध्यः, सत्त्ववान् सत्त्वाधिकः, भीतसभ:=भीतपर्षत, 'तथैव च' इति पूरणार्थः, मार्दविक: निगृहीतमानः, कुलपुत्र:=प्रधानकुलोत्पन्नः, आर्याशय्यातरः =साध्वीवसतिदाता, विदुः विद्वानिति श्लोकार्थः ॥११२।। __ किमित्येवं शय्यातरो वर्ण्यते यतस्तस्याऽपि सारणादावधिकारोऽत आह
सारणा वारणा चेव चोयणा पडिचोयणा । कायव्वा सावएणावि, साहुणीणं सुहासया ॥११३॥
स्मारणा वारणा 'चोयणा पडिचोयण'त्ति प्रेरणा प्रतिप्रेरणा चैव, पूर्वस्माच्चैवशब्दोऽत्र सम्बध्यते, कर्तव्या विधेया, श्रावकेणाऽपि साध्वीनां शुभाशयात्= शुद्धाशयादिति श्लोकार्थः ॥११॥
स्मारणादिस्वरूपप्रतिपादनायाऽऽहपम्हुढे सारणा वुत्ता, अणायारस्स वारणा ।
चुक्काणं चोयणा भुज्जो, निट्ठरं पडिचोयणा ॥११४॥
'पम्हुढे' त्ति प्रमृष्टे= विस्मृते स्मारणा व्युक्ता, अनाचाराद् वारणा निषेधनम्, 'चुक्काणं' स्खलितानां 'चोयण' त्ति प्रेरणा, 'भुज्जो' त्ति भूयः प्रवर्तमानानां निष्ठुरं प्रतिप्रेरणा='ज्ञास्यथ यद्येवं न करिष्यथ ?' इति श्लोकार्थः ॥११४||
समस्तकृत्यसङ्ग्रहमाह
१. ला. 'कादिवृता ॥ २. ला. नातिवि ॥ ३. ला. विना भूयो नि ।