________________
मूलशुद्धिप्रकरणम्-द्वितीयो भाग: यद्ययज्जिनैः प्रज्ञप्तं प्ररूपितं वैयावृत्यादि, तत्र वैयावृत्यं दशधा, उक्तं चआचार्योपाध्याय-तपस्वि-शिक्षक-ग्लान-कुल-गण-सङ्घ-साधु-समनोज्ञानाम्
... (तत्त्वा० अ०९ सू० २४) आदिशब्दाद् विनय-तपश्चरणादिपरिग्रहः, क्रियते= विधीयते, तत्तद् विनिर्जराहेतुः= विशिष्टकर्मक्षयकारणम्, विशेषतः पुनरिदं साध्वीकृत्यमिति श्लोकार्थः ॥१०३।।
अत्राऽन्तरे परः प्राहकामं खु निज्जरा णंता वीयरागेहि वणिया।
अज्जावट्टावणे किंतु विहीए दुक्करं इमं ॥१०४॥
कामम्=अनुमतार्थे, 'खु' इति निश्चये, निर्जरा= कर्मक्षयः, अनन्ता=अपरिमेया, वीतरागैजिनैः, वर्णिता=प्ररूपिता । क्व? इति, अत आह-आर्यावर्तने साध्वीसंयमप्रवर्तने, किन्तु=किमुत, विधिना=विधानेन, दुःकरंदुःशकमिति श्लोकार्थः ॥१०॥
स्वपक्षे पर एव दृष्टान्तमाह
जहा सीहगुहा काई नाणारयणसंकुला। धरिसित्ता तर्हि सीहं, घेत्तुंरत्ताणि दुक्करं ॥१०५॥
यथा सिंहगुहा= कण्ठीरवाश्रयः, काचिद् =अनिर्दिष्टनामा, नानारत्नसङ्कला= विविधरत्नपरिपूर्णा, 'धरिसित्ता' धर्षयित्वा, 'तहिं' ति तत्र, सिंह केसरिणम्, 'घेत्तुं'ति ग्रहीतुम्, 'रत्ताणि' रत्नानि, दुःकरंदुःशकमिति श्लोकार्थः ॥१०५॥
पर एव दामन्तिकमाह
अण्णाण-राग-दोसाईजीयदुइंतदोसओ। अज्जापओयणं काउं दुक्करं निज्जरा तहा ॥१०६॥
अज्ञानं मत्यज्ञानादि, रागः=अभिष्वङ्गलक्षण: द्वेषः= अप्रीतिलक्षणः, अज्ञानं = चेत्यादिद्वन्द्वः, त आदिर्यस्याऽसौ तदादिः, स चाऽसौ पूर्वापरनिपाताद् दुर्दान्तजीवदोषश्च; तस्मात्, आर्याप्रयोजनं कृत्वा 'दुक्कर' दुःशकं निर्जरा तथा ग्रहीतुमिति शेष इति श्लोकार्थः ॥१०६।।
आचार्य आह
१. सं.वा.सु. पर आह ॥ २. 'रयणाणि' सर्वासु प्रतिषु वर्तते । अत्र विवरणगतः 'रत्ताणि' इति अनुष्टुप्छन्दानुसारी पाठः स्वीकृतोऽस्ति ॥ ३. सं.वा.सु.पु. श्रया ॥