________________
- [साध्वीकृत्याख्यं पञ्चमस्थानकम्] व्याख्यातं चतुर्थं स्थानकम्, सम्प्रति पञ्चममारभ्यते । अस्य च पूर्वेण सहाऽयमभिसम्बन्धःपूर्वत्र साधुकृत्यमुक्तम् ।
तदनन्तरं साध्वीकृत्यम् । अतस्तत्स्थानकम्, तस्य चाऽऽदिवृत्तमिदं
साहूण जं पावयणे पसिद्धं, तं चेव अज्जाण वि जाण किच्चं । पाएण ताणं नवरं विसेसो, वट्टावणाई बहुनिज्जरं ति ॥१०१॥
साधूनां यतीनाम्, 'ज' ति यत्, 'पावयणे' त्ति प्रवचने प्राकृतत्वाद्दीर्घत्वम्, 'पसिद्धं' ति प्रसिद्धं='प्रकटम्', 'तं चेव' त्ति तदेव, 'अज्जाणं' ति आर्याणां साध्वीनाम् 'जाण' त्ति जानीहि अवबुध्यस्व, “किच्चं' ति कृत्यम्, 'पाएणं' ति प्रायः =बाहुल्येन, 'ताणं' ति तासाम् 'नवरं' ति केवलम्, 'विसेसो' त्ति विशेषोऽयमिति गम्यते, 'वट्टावणाइ' ति वर्तनादि तासां यत् संयमकृत्यादिषु प्रवर्तनमिति भावः 'बहुनिज्जरं' ति बहुनि रं= भूरिकर्मक्षयकारि । इतिशब्दो वृत्तसमाप्ताविति वृत्तार्थः ॥१०१॥
कस्मादिदंबहुनिर्जरं ? यस्माज्जिनोक्तं जिनाज्ञया विधीयमानस्य मोक्षकारणत्वाद् । अत आह -
जिणाणाए कुणंताणं, नूणं निव्वाणकारणं ।
सुंदरं पि सबुद्धीए, सव्वं भवनिबंधणं ॥१०२॥
जिनाज्ञया तीर्थकरोपदेशेन, कुर्वतां विदधतां कृत्यमिति शेषः, नूनं निश्चितम्, निर्वाणकारणं = मोक्षविधायि । सुन्दरमपि शोभनमपि, स्वबुद्ध्या निजाभिप्रायेण, सर्वमपि= अशेषमपि आस्तामार्यिकाकृत्यम् भवनिबन्धनं संसारकारणम्,
उक्तं च -
समइपवित्ती सव्वा आणाबज्झ त्ति भवफला चेव । तित्थकरुद्देसेण वि, न तत्तओ सा तदुद्देसा ॥३२६॥
पञ्चा० गा० ३६३ इति श्लोकार्थः ॥१०२॥ किमेतदेव संयतीकृत्यमाज्ञया विधीयमानं मोक्षाय भवत्युताऽन्यदपि ? अत आह
जं जं जिणेहिं पन्नत्तं वेयावच्चाइ कीई । तं तं विणिज्जराहेउ विसेसेण पुणो इमं ॥१०३॥ १. सं.वा. सु.पु. “ति सूत्रार्थः ॥ २. सं.वा. राहेडं, सु० प्रतौ पाठभङ्गः ।।