________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
१२७ सम्भवा=अभ्रव्यतिरिक्तसम्भूतिः वज्रासनी हि (शनिहि?)अभ्रादुत्पद्यते कथञ्चित्साध्या च भवति इयं त्वनभ्राऽसाध्या च मारणात्मकत्वादिति भावः ॥१६४॥
नारी अनामिया वाही दारुणा देइ वेयणा । नारी अहेडेओ मच्चू सिग्धं पाणे विणासइ ॥१६५॥
अनामकः = नामरहितः, व्याधिः = रोगसम्भूतिः, तथा हि यो व्याधिर्भवति स कास-शोषादिनामवान् भवति, इयं त्वनामको व्याधिः, ततश्च दारुणाः= अत्यन्तरौद्राः, ददाति= प्रयच्छति, वेदना:=पीडाः, तथा अहेतुकः= कारणरहितो मृत्युस्तथा हि यो मृत्युर्भवति सोऽध्यवसानादिकारणेभ्यो जायत इयं तु निष्कारणो मृत्युः, शीघ्रं =द्रुतम्, प्राणान् विनाशयति घातयति ॥१६५।।।
नारी अकंदरा वग्घी कूरासंघारकारिया । पच्चक्खा रक्खसी चेव, पसिद्धा जिणसासणे ॥१६६॥
अकन्दरा=कन्दरारहिता, व्याघ्री=शार्दूली, सा हि गिरिकन्दरे भवति, इयं त्वकन्दरा व्याघ्री, ततश्च क्रू रा= क्रू रस्वभावा, 'संहारकारिका' प्राणशरीरसंहरणशीला, तथा प्रत्यक्षा=प्रकटा, राक्षसी चैव रक्षोभार्या सा ह्यप्रकटा भवति, इयं तु प्रकटा राक्षसी विनाशकत्वात्, प्रसिद्धा जिनशासने=अर्हद्दर्शने इति श्लोकत्रयार्थः ॥१६४-१६६॥
साम्प्रतं 'नारीदोषान् दृष्टान्तैः प्रतिपादयितुकामः श्लोकचतुष्टयमाहबद्धत्तर नियडीणं कूडाणं कवडाण य । निरायं पूरिया नारी जहा नेउरपंडिया ॥१६७।। बंद्धोत्तर=वक्रोत्तरं यथा
श्वासः किं त्वरितागता, पुलकिता कस्मात् ? प्रसाद्यागता स्रस्ता वेण्यपि पादयोनिपतनात् क्षामा किमत्युक्तिभिः ।
स्वेदाः मुखमातपेन गलिता नीवी गमादागमाद् । __ ति म्लानसरोरुहद्युतिधरस्यौष्ठस्य किं वक्षसि ॥३५५।।
निकृतयः मायाः, कूटानि परवञ्चनाद्यर्थः तथाविधप्रयोगविरचनानि, कपटं= स्वकृतदोषोत्तारणार्थमालजालप्रतिपादना, निरायं' ति नितरामत्यर्थम्, पूरिता= भृता, नारी=ललना, यथा नूपुरपण्डिता नूपुरोपलक्षितविदग्धेति श्लोकाक्षरार्थः ॥१६७॥
१. ता. 'उया म° || २. ला. पाणे पणा ॥ ३. ता. वट्टत्तर ॥ ४. सं.सु. बहुत्त । वा. वट्टोत्त' ।