________________
१२६
मूलशुद्धिप्रकरणम्-द्वितीयो भागः साहम्मिणीण वच्छलं सावियाणं जहोचियं ।
कायव्वं सावयाणं व वीयरोगेहिं वण्णियं ॥१६२॥
'साहम्मिणीणं' ति समानधर्मवतीनाम्, 'वच्छल्लं' ति वात्सल्यं = वत्सलता तत्कृत्यमिति भावः, श्राविकाणां= श्रमणोपासिकानाम्, 'साहम्मिणीणं' ति एतदस्यैव विशेषणम् यथोचितं यथायोग्यम् कर्तव्यं' करणीयम् श्रावकाणामिव वीतरागैगतरागद्वेषैस्तेषा-मलीकभाषणासम्भवात्, उक्तं च
रागाद्वा द्वेषाद्वा, मोहाद्वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दोषास्तस्याऽनृतकारणं किं स्यात् ? ॥३५३॥ वर्णितं प्रतिपादितमिति श्लोकार्थः ॥१६२॥ अत्राऽन्तरे कश्चित् परः प्राहलोए लोउत्तरे चेव, तहाऽणुभवसिद्धिओ ।
सूरी भासंति भावण्णू नारी दोसाण मंदिरं ॥१६३॥
लोके = सामान्यजने, लोकोत्तरे चैवजिनदर्शने; चैवशब्दो लोकापेक्षया समुच्चयार्थः । तथाऽनुभवसिद्धितः= अनुभवसिद्धेश्च, 'सूरयः' पण्डिताः, भाषन्ते = प्रतिपादयन्ति, भोवज्ञाः तत्स्वभाववेदिनः, 'नारी' स्त्री, दोषाणां विरूपस्वभावानाम्, मन्दिरं गृहमिति श्लोकार्थः ॥१६३॥
यथाऽसौ दोषमन्दिरं तथा श्लोकत्रयेणाऽऽहनारीनाम मणुस्साणं, अभूमा विसकंदली । नारी वज्जासणी पावा, असज्झाऽणब्भसंभवा ॥१६४॥
नारी स्त्री, 'नाम' इति सम्भावनायाम्, 'मणुस्साणं' ति मनुष्याणाम्, अभूमा= भूमिरहिता, विषकन्दली=अभिनवोत्पद्यमानविषलता विषकन्दली हि भूमौ समुत्पद्यते इयं त्वभूमिजा विषकन्दली घारण-मारणात्मकत्वादिति भावः । तथा च
जह उवभुत्ता विसकंदली उ घारेइ तह य मारेइ । तह उवभुत्ता नारी, घारइ मारेइ पुरिसगणं ॥३५४।। तथा वज्राशनिः विद्युत्, पापा पापस्वभावा, असाध्या अनिवारणीया, अनभ्र
१. ता. 'रागेहि दंसियं ॥ २. ला. भावज्ञाः वक्ष्यमाणभाववे ॥ ३. ला. भूमावुत्प' ॥ ४. सं.वा.सु. “त्वात् । त॥