________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
१२५ अन्यदपि= आस्तां तावत् पूर्वोक्तं तद्व्यतिरिक्तमपि, सामिक कृत्यं = समानधार्मिकप्रयोजनम्, 'एय'ति एतद्वक्ष्यमाणम्, पाठान्तराद्वा ‘एवं'ति अनेनैव पूर्वोक्तप्रकारेण, जिनागमे= अर्हद्दर्शने, 'पायडमेव' त्ति प्रकटमेव प्रसिद्धमेव दीर्घत्वमलाक्षणिकम् 'जं तु' त्ति यकत्. तु, साधारणं सर्वसामान्यं द्रव्यमिति गम्यते, साधारणसमुद्भवनिरूपणमिति भावः, पौषधशालादि= पौषधगृहप्रभृति पौषधशालायां पौषध-सामायिक-प्रतिक्रमणादि विधीयते, यत उक्तम्
साहुसैमीवे वा पोसहसालाए वा चेईहरे वा गिहेगदेसे व त्ति," । यद्वा साधारणं सर्वसामान्यं पौषधशालायेव, आदिशब्दाद्विनय-वैयावृत्त्यादिग्रहः 'कुज्ज' त्ति कुर्याद्=विदध्याज्जिनोक्तत्वादिति भावः । तथा च भगवत्यामुक्तम्
"तए णं संखे समणोवासए पोसहसालं पमज्जइ पमज्जित्ता अणुपविसई" (शतक१२ सूत्र १२) इत्यादि ।
गृही= गृहस्थः, 'सीलगुणावह' ति शीलं =सर्वविरतिरूपं तस्य गुणाः = क्षान्त्यादयस्तानावहति विदधाति यस्मात्तदिति शेषः, इति=प्रकरणसमाप्ताविति वृत्तार्थः ॥१६०॥ श्रीदेवचन्द्राचार्यविरचितेमूलशुद्धिविवरणे षष्ठस्थानकविवरणं समाप्तम् ।
[श्राविकाकृत्याख्यं सप्तमस्थानकम्] व्याख्यातं षष्ठं स्थानकम, साम्प्रतं क्रमायातं सप्तमस्थानकमारभ्यते । अस्य च पूर्वेण सहाऽयमभिसम्बन्धः । पूर्वत्र श्रीवकोचितकृत्यं कर्तव्यतयोक्तम्, तदनन्तरं श्राविकाकृत्यस्थानकम् । तस्य चेदमादिसूत्रवृत्तम्
जं सावयाणं करणिज्जमुत्तं, तं सावियाणं पि मुणेह सव्वं । तित्थाहिवाणं (तित्थंकराणं?) वयणे ठियाणं,ताणं विभागेण विसेसकिच्च॥१६१॥
यत् श्रावकाणां= श्रमणोपासकानाम्, 'करणिज्ज' ति करणीयं कृत्यम् = 'उत्तं' ति उक्तं = प्रतिपादितम् तत् श्राविकाणामपि= श्रमणोपासिकानामपि 'मुणेह'त्ति मुणत वेत्थ, सर्व समस्तम्, तीर्थकराणाम् वचने शासने, स्थितानां तिष्ठन्तीनाम् 'ताणं' ति तासाम्, विभागेन= पृथग्भागेन, विशेषकृत्यं पृथक्करणीयमेतदिति शेषः । इति वृत्तार्थः ॥१६१॥ तदेव कृत्यं श्लोकेनाऽऽह
१. सं.वा.सु. "समीवं ।। २. ला. श्रावकमधिकृत्य कर्त ॥ ३. सं.वा.सु. °थग्विभा' ॥ ४. इयमुत्थानिका ला. प्रतौ नास्ति ।।