________________
१२४
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
कस्माद्धर्म एव विधातव्यः इत्यत आहमाणुस्सं उत्तमो धम्मो, गुरू नाणाइसंजुओ । सामग्गी दुलहा एसा, जाणाहि हियमप्पणो ॥१५७॥
मानुष्यं =मानुषत्वम्, उत्तमः प्रधानम्, धर्म: दुर्गतिप्रपतदङ्गिगणधारकः शेषधर्मापेक्षया जिनधर्म इति, गुरुः यथावस्थित शास्त्रार्थप्ररूपकः, सोऽपि ज्ञानादिसंयुतः=ज्ञानदर्शन-चारित्राद्यनेकगुणगणालङ्कृतः, सामग्री समुदायः, दुर्लभा दुःप्रापा, एषा=पूर्वोक्ता, जानीहि अवबुध्यस्व, हितं= श्रेयः, आत्मनः= स्वस्यैतदिति शेष इति श्लोकार्थः ॥१५७॥ ततश्च
एवंविहार्हि वग्गूर्हि दायव्वमणुसासणं । पच्चक्खं वा परोक्खं वा गुणवंतं पसंसए ॥१५८॥
एवंविधाभिः पूर्वोदिताभिरिति भावः, 'वग्गूहिति वाग्भिः वचनैः दातव्यं = विधेयम्, अनुशासनम् =अनुशास्तिः, प्रत्यक्षं वा समक्षम्, परोक्षं' वा तदसमक्षं वा, वाशब्दादुभयथाऽपि, गुणवन्तं गुणयुक्तम् प्रशंसयेत्= श्लाघयेदिति श्लोकार्थः ॥१५८॥ किमेतदेव कृत्यमुताऽन्यदपि ? अत आह
अवत्थावडियं नाउं, सामत्थेणं समुद्धरे । परोप्परं सधम्माणं, वच्छल्लमिणमो परं ॥१५९॥
अवस्थापतितं दुःस्थतामापन्नम्, ज्ञात्वा, सामर्थ्येन स्वशक्त्या, समुद्धरेत् =द्रव्यतो भावतश्च, तत्र द्रव्यतो नीवीद्रव्याद्यर्पणतो निर्वाहकरणेन; भावतो धर्मस्थिरीकरणादिना, परस्परम्= अन्योन्यं 'सधम्माणं' ति सार्मिकाणाम्, वात्सल्यं = प्रतिपत्तिः इदम् एतत्, परं प्रधानमिति श्लोकार्थः ॥१५९॥
साधर्मिककृत्यं प्रकरणोपसंहारं च वृत्तेनाह
अण्णं पि साहम्मियकज्जमेयं जिणागमे पायडमेव जं तु । साहारणं पोसहसालमाई कुज्जा गिही सीलगुणावहं ति ॥१६०॥
१. 'ततश्च' इति ला. प्रतौ नास्ति ।। २. सं.वा.सु. 'मक्षं वा, वाशब्दा' ॥ ३. ला. नीव्याद्यर्प ॥ ४. ता. "ज्जमेवं ॥ ५. ता. "ति ॥१६०|| सावयाणं ति छटुं॥