________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
'आभिओगत्तं (त्तणं)' पारवश्यं प्राप्ताः, मनः सन्तापतापिताः = 'हा ! किमस्माभिः पापैः प्रमादवशवर्तिभिरिदं कृतं येनैवंविधाः सञ्जाताः' इत्यादिचित्तखेदवन्त इति ॥ १५१ ॥ पाणं महासूरी, संपुण्णसुयकेवली ।
दुरंता - ऽणंतकालं तु, णंतकाए वि संवसे ॥१५२॥
प्रमादात्=शैथिल्यात्, महासूरिः = प्रसिद्धाचार्यः, सम्पूर्ण श्रुतकेवली = चतुर्दशपूर्ववित्, दुरन्ता - ऽनन्तकालं तु = दुःखेनाऽन्तो यस्याऽसदुरन्तः; न विद्यतेऽन्तो यस्याऽसावनन्तः, दुरन्तश्चाऽसावनन्तश्च दुरन्तानन्तः स चाऽसौ कालश्च । तम्, यावदनन्तकायेऽपि, आस्तामन्ययोनिषु, वसति=तिष्ठति । तथा ह्यसौ महासूरिः प्रमादाद्विस्मृतचतुर्दशपूर्वो मिथ्यात्वं प्राप्तोऽनन्तकायेषूत्पद्यत इत्यागमे श्रूयत इति ॥ १५२ ॥
पमाणं भमंताणं, एवं संसारसायरे ।
तिक्खाणं दुक्खदुक्खाणं, वोच्छेओ नत्थि पाणिणं ॥१५३॥
सुखावबोधः, परम् ‘एवं ति पूर्वोक्तप्रकारेण, तीक्ष्णानाम् = अतिनिशातशस्त्राग्रवदसह्यानाम्, दुःखदुःखानां दुःखादप्यतिदुःखानामिति ॥१५३॥
ता पमायं पमुत्तूण, कायव्वो होइ सव्वहा ।
उज्जमो चेव धम्मम्मि सव्वसोक्खाण कारणं ॥ १५४॥
=
सुगमश्चाऽयम्, नवरमुद्यमश्चैव इत्यत्र चैवशब्दस्याऽवधारणार्थत्वाद्धर्म एवोद्यमः कर्तव्य इति ॥ १५४॥ अत आह
सव्वे संसारिणो सत्ता, कम्मुणो वसवत्तिणो ।
कम्णो यवसितं तु, जीवाणं दुक्खकारणं ॥ १५५ ॥
१२३
तस्मात्
सर्वे=समस्ताः, संसारिणः = भववर्त्तिनः, सत्त्वाः = प्राणिनः कर्मणः । = दैवस्य, वशवर्तिनः = परवशाः, ततः किं कर्मणस्तु वशवर्तित्वं जीवानां दुःखकारणम्= अशर्मकृदिति श्लोकार्थः ॥ १५५॥
-
निम्मूलुम्मूलणत्थं च तम्हा दुट्ठट्ठकम्मुणो ।
कायव्वो भद्द ! निच्चं पि, धम्मो सव्वण्णुभासिओ ॥१५६॥
निर्मूलोन्मूलनार्थं तस्माद्दुष्टाष्टकर्मणां कर्तव्यः = विधेयः, 'भद्र !' इति प्रमादवशवत्सा धर्मिकामन्त्रणम्, नित्यं= सदा, धर्मः = सर्वज्ञभाषित इति श्लोकार्थः ॥ १५६॥