________________
सविवरणे मूलशुद्धि प्रकरणे अट्ठावय उजिंते गयग्गपयए य धम्मचक्के य । पास रहावत्तनगं चमरोप्पायं च वंदामि ।।२८।। (गा. ३३१-३३२)
२२२).. .. अनयोर्व्याख्या तदुक्तैव लिख्यते
तीर्थकृतां जन्मभूमिषु, तथा निष्क्रमण-च्यवन-ज्ञानोत्पत्तिभूमिषु, तथा निर्वाणभूमिषु, तथा देवलोकभवनेषु, मन्दरेषु, तथा नन्दीश्वरद्वीपादौ, भौम्येषु च-पातालभुवनेषु च यानि शाश्वतचैत्यानि तानि, वन्देऽहम्' इति द्वितीयगाथान्ते क्रियेति । एवमष्टापदे, तथा श्रीमदुज्जयन्तगिरी, गजाग्रपदे-दशार्णकूटवर्तिनि, तक्षशिलायां धर्मचक्रम् (चक्रे), तथाऽहिच्छत्रायां पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने, एवं रथावर्ते पर्वते वैरस्वामिना यत्र पादपोपगमनं कृतम्, यत्रश्रीवर्धमानमाश्रित्य चमरेन्द्रेणोत्पतनं कृतम्, एतेषु च स्थानेषु यथासम्भवमभिगमन-वन्दन-पूजनोत्कीर्तन-निषेवणादिकाः क्रियाः कुर्वतो दर्शनशुद्धिर्भवतीति ।।" (पृष्ठ: २७९)
__भावतीर्थं तु ज्ञानादिगुणयुक्ता: साधवः, तत्पर्युपासनाऽपि सम्यक्त्वं भूषयति, तदुपदेशश्रवणादिना भण्यते च
नाणाइगुणसमग्गे जो णिच्चं पजुवासए साहू ।
सम्मत्तभूसणाई तस्स गुणा होति णेगविहा ।।२९ . तथाऽऽचारनियुक्तावप्युक्तम्
तित्थयराण भगवओ पवयण-पावयणि-अइसइवीणं ।
अभिगमण णमण दंसण कित्तण संपूयणं थुणणा ।।३०।। (गा.३३३) अस्या अपि तदक्षरैर्व्याख्या
तीर्थकृतां भगवताम्, प्रवचनस्य द्वादशाङ्गस्य . गणिपिटकस्य, तथा प्रानिकानाम् =आचार्यादीनां युगप्रधानानाम्, तथाऽतिशयिनामृ द्धिमतां के वलिमन:पर्यायावधिमच्चतुर्दश- पूर्वविदाम्, तथा आमौषध्यादिप्राप्तझैनाम्, यदभिगमनम्, यच्च नमनम्, गत्वा च दर्शनम्, तथा गुणोत्कीर्तनम्, सम्पूजनं गन्धादिना, स्तोत्रैः स्तवनम्, तदपि सम्यग्भावनाहेतुरिति । (पत्र ३८५ तमे)
१. ला० ण-चरणज्ञा ।। २. ला० शाश्वतानि चै ।। ३. ला० चक्रम् अहिछत्रा ।। ४. ला० श्रीमद्वर्ध ।। ५. ला० 'वासई ।। ६. सं० वा० सु० ‘णाइ ।। ७. ला० ण दरिसण ।। ८. सं० वा० सु० यणा ।। ९. ला० रैव व्याख्या ।। १०. ला० चनिनाम् ।।