________________
सम्यक्त्वशुद्धिवर्णनम्
सङ्क्रान्ति-सोमग्रहणादिष्वप्यायोज्यन्ते । सङ्क्रान्तौ = रवे राश्यन्तरसङ्क्रमणे, सोमग्रहणे = चन्द्रविमानस्य राहुविमानान्तरणे, आदिशब्दात् सूर्यग्रहणाऽमावास्या - व्यतीपातादयोऽवबोद्धव्याः । किमित्यदो न कल्पते ? यत: ‘प्रभूतलोकानां' बहुजनानां प्रवाहकृत्यं गड्डरिकाप्रवाहवद् अज्ञानविजृम्भितमेतदिति शेषः ।
1
जहा कोई बंभणो पोक्खरं गओ । सो य तिपुक्खरे न्हाणत्थं ओयरिउकामो हत्थट्ठियतंबभायणं एगत्थ ठवित्ता साहिण्णाणनिमित्तं उवरि वालुगाए उक्कुरुडं काउं पुक्खरे पट्ठो । इओ य जत्तागयाणेगलोगेहिं चिंतियं ' जहेस लंबचोडबंभणो विउसो वेयवी बहुजाणगो एवं करेइ तहा नज्जइ एवं कज्जमाणं महाफलं होइ ।' तओ सयललोगो वालुयाए उक्कुरुडं काउं न्हाणत्थं ओयर । सो य बंभणो न्हाउत्तिण्णो जाव तं तंबभायणोक्कुरुडं पलोएइ ताव कयाणि कज्जमाणणि य अगा उक्कुरुडाणि पिच्छइ । तओ तं निउक्कुरुडमजाणमाणो विमणदुम्मणो जाओ । ताहे मित्तेण भणिओ 'मित्त ! तुमं गिहाओ धम्मत्थी आगओ इह तित्थे न्हाउत्तिण्णो सहसा किं संपइ दुम्मणो जाओ ? । ' तओ तेण भणियं—
1
गतानुगतिको लोको न लोकः पारमार्थिकः । पश्य लोकस्य मूर्खत्वं हारितं ताम्रभाजनम् ।।१४।। ईदृशो लोकस्य प्रवाह इति वृत्तद्वयार्थः ।।५-६।।
साम्प्रतं सम्यग्दर्शनस्यैव भूषणादीन्यभिधातुकाम उत्क्षेपं वृत्तेनोक्तवान् —
पंचेव सम्मत्तविभूसणाई, हवंति पंचेव य दूसणाई ।
लिंगाईं पंच च (च्च) उ सदहाण, छच्छिंडिया छच्च हवंति ठाणा ।।७।।
'पञ्च' इति सङ्ख्या, ऍव' अवधारणे, सम्यक्त्वस्य = सम्यग्दर्शनस्य, विभूषणानि= आभरणकल्पानि सम्यक्त्वविभूषणानि, 'भवन्ति' जायन्ते । तथा 'पञ्चैव' पञ्चसङ्ख्यान्येव, 'च: ' समुच्चये, 'दूषणानि', विकृतिजनकानि, सम्यक्त्वस्यैव इति सर्वत्र योजनीयम् । 'लिङ्गानि ' चिह्नानि । 'पञ्च' इति तथैव । 'चउ'त्ति चत्वारि 'श्रद्धानानि' यैर्विद्यमानं सम्यक्त्वं श्रद्धीयते । प्राकृतत्वाद् एकवचननिर्देशः । ‘षड्' इति संख्या, 'च' समुच्चये, 'छिण्डिकाः' अपवादाः । षट् च भवन्ति 'स्थानकानि' सम्यक्त्वावस्थानानि । पुंल्लिङ्गनिर्देश: प्राकृतत्वादेव । द्वितीयक्रियोपादानं त्वाद्यन्तग्रहणे मध्यग्रहणमिति न्यायप्रदर्शनार्थमिति वृत्तार्थः ।।७।।
साम्प्रतं यथोद्देशं तथा निर्देश:' इति न्यायमाश्रित्य भूषणानि वृत्तेनाऽऽह —
१. ला० चान्द्र । २. ला० पोक्करं । ३. ला० 'फलं भवइ । ४. सं० वा० सु० णि अणेगाणि य उक्कु' । ५. ला० निजुक्कुरु । ६. ला० लोकप्रवाह । ७. ला० भवंति ।। ८. ला० एवः ।।