________________
सविवरणे मूलशुद्धि प्रकरणे
'भावत:' अन्त:करणवृत्त्या तत्प्रतिपत्तिपरिहारेण । 'पूर्व प्रथमं सम्यक्त्वा- [, ततश्च सम्यक्त्वं मिथ्या- त्वविपरीतं 'प्रतिपद्यते' अङ्गीकरोति । यद्वा काकाक्षिगोलकन्यायेन द्रव्यतो भावतः । पूर्वमित्युभयत्र सम्बध्यते । तेन द्रव्यतश्चैत्यवन्दना २] दिकृत्यकरणतः, भावतोऽनन्यचेतोवृत्त्या पूर्वमणुव्रतप्रतिपत्तेः सम्यक्त्वं प्रतिपद्यत इति श्लोकार्थः ।।४।। प्रतिपन्नसम्यक्त्वस्य च यद् यद् न कल्पते तत् तद् वृत्तद्वयेनाऽऽह
न कप्पए से परतित्थियाणं, तहेव तेसिं चिय देवयाणं । परिग्गहे ताण य चेइयाणं, पभावणा-वंदण-पूयणाई ।।५।। लोगाण तित्थेस सिणाण दाणं, पिंडप्पयाणं हुणणं तवं च ।
संकंति-सोमग्गहणाइएसुं, पभूयलोगाण पवाहकिच्वं ।।६।।
परतीथिकानां वन्दनादि न कल्पत इति सम्बन्ध: । 'न कल्पते' न युज्यते, 'से' तस्य प्रतिपन्नदर्शनस्य, परे आत्मव्यतिरिक्तास्तीर्थिका: दर्शनिनः, परे च ते तीर्थकाश्च परतीर्थिकास्तेषाम्। 'तथैवभ' तेनैव प्रकारेण, तेषां परतीथिकानाम्, 'चिय' त्ति अवधारणार्थस्तेन तेषामेव परतीथिकानां या देवता:-शास्तृरूपाता(स्ता)सां ‘परिग्रहे' स्वीकारे । 'तेषां च' तेषामेव चैत्यानां जिनबिम्बानां तत्परिगृहीतजिनायतनानामित्यर्थः । प्रभावना-प्रशंसादिभिः, वन्दनं-प्रणामादिभिः, पूजनं-पुष्पादिभिः, आदिशब्दाद् विनय-वैयावृत्त्य-स्नात्रयात्रादिकमपि गृह्यते । उक्तं च- -
नो से कप्पड़ अज्जप्पभिई अनउत्थिए वा, अन्नतित्थियदेवयाणि वा, अनउत्थियपरिग्गहियाणि चेइयाणि वा, वंदित्तए वा नमसेत्तए वा, पुब् िअणालत्तएणं आलवित्तए वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं वा, तेसिं गंधमल्लाइं पेसिउं वा । इति (आवश्यकसूत्रप्रत्याख्यानाध्ययने, पत्र ८११ तमम्) ।।५।।
तथैतदपि न कल्पत इति योग: । ‘लोकानां' मिथ्यादृष्टिजनानां 'तीर्थेषु' वाराणसीगयाप्रभृतिषु गत्वेति शेषः । ‘स्नानम्' अङ्गप्रक्षालनम्, 'दान' वितरणम्, 'पिण्डप्रदानं' पितृनिमित्तकल्पितौदनपिण्डस्य नीरादिप्रक्षेपणम्, 'हवनम्' अग्नावाहुतिक्षेपरूपम्, 'तपः' तीर्थोपवासादिकम्, 'च:' समुच्चये । स्नानादीनि तु डमरुकमध्यग्रन्थिन्यायाद् उभयत्र सम्बध्यन्ते । अत:
१. सं० वा० सु० तत्प्रवृत्तिपरिहा ।। २. [] एतचिह्नान्तर्वी पाठः की-ला. प्रत्योरेवेति विज्ञेयम् ।। ३. ला० 'णाई ।। ४. ला० लोयाण । ५. तासु य ण्हाण दाणं । ६. ला. 'कादीनां । ७. सं० वा. सु० 'नादि कल्पत । ८. सं० वा० सु० देवता । ९.सं० वा० सु० बिम्बा तत्प।१०.ला. अन्नउत्थियदेवयाणि वा अन्नतिथियपरिग्गहियाणि वा अरिहंतचेयाणि वंदि।