________________
गुरूपदेशवर्णनम्
अवैपरीत्येन विनयादिक्रमरूपेण । यतो विनयवत एव यथावस्थितार्थश्रुतलाभो भवति, न दुर्विनीतस्य । उक्तं च
विणयण्णियस्स मुणिणो दिति सुयं सूरिणो किमच्छेरं ? । को वा ण देइ भिक्खं अहवा सोवण्णिए थाले? ।।९।। सेहम्मि दुव्विणीए विणयविहाणं ण किंचि आइक्खे ।
न वि दिजइ आभरणं पलियत्तियकण्ण-हत्थस्स ।।१०।। 'सकाशे' पार्श्वे । 'मुनिपुङ्गवानां' प्रवचनधरसूरीणाम्, 'प्राप्नुवन्ति' लभन्ते, कल्याणं-शुभं तस्य परम्परा:=उत्तरोत्तरशुभसन्ततिरूपाः । उक्तं च
मोहं धियो हरति कापथमुच्छिनत्ति, संवेगमन्त्रमयति प्रशमं तनोति । सूतेऽनुरागमतुलं मुदमादधाति, जैनं वचः श्रवणत: किमु यन्न दत्ते ।।११।।
ततश्च गुणान् ज्ञानादिकान् क्षान्त्यादिकांश्च धारयन्ति=बिभ्रति गुणधरा भवन्ति-जायन्ते । अनुस्वारः पूर्ववत् । गुणधराश्च भूत्वा 'व्रजन्ति' गच्छन्ति सिद्धिं मुक्तिमिति वृत्तार्थः ।।३।। सम्यग्दर्शनलाभस्योपायमभिधायाधुना तत्प्रतिपत्तिक्रमं श्लोकेनाऽऽह
समणोवासगो तत्थ, मिच्छत्ताओ पडिक्कमे ।
दव्वओ भावओ पुव्रि, सम्मत्तं पडिवज्जइ ।।४।। श्राम्यन्तीति श्रमणा:-साधवस्तेषामुपासक: सेवकः श्रमणोपासकः । तथा च
भतिभानिन्भरंगो सयधम्मत्थी तिकालमणुदियहं ।
जो पजुवासइ जई तं समणोवासगं बेंति ।।१२।। तत्रशब्द उत्क्षेपार्थः । मिथ्यात्वम् अदेवादिषु देवत्वादिप्रतिपत्तिरूपम् । तथा च
अदेवासाध्वतत्त्वेषु यद्देवत्वादिरोचनम् ।
विपरीतमतित्वेन तन्मिथ्यात्वं निगद्यते ।।१३।। [?तस्मात्] 'प्रतिक्रामति' प्रतीपं गच्छति। 'द्रव्यत:' बाह्यवृत्त्या तत्कृत्यपरित्यागेन।
१. सं० वा० सु० र्थस्वरूपलाभो ।। २. सं० वा० सु० यण्णुयस्स ।। ३. 'परिकर्तितकर्णहस्तस्य' इत्यर्थः ।। ४. सं० वा. सु नवरसू ।। ५. सं० वा. सु० धत्ते ।। ६. “नीया लोव" इत्यादिना प्रथमगाथाटीकायां निदर्शितेन प्रमाणेन 'गुणधरा' इत्येतत् सिद्धं ज्ञेयम् ।। ७. ला० ‘वासओ ।। ८. ला० पुव्वं ।। ९. सं० वा० सु० याति ।।