SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ सविवरणे मूलशुद्धि प्रकरणे सामर्थ्यादेवोक्तो दृश्य इति प्रथमवृत्तार्थः ।।१।। ___यामभिनन्दयन्त इत्यनेन सम्यक्त्वशुद्ध्यादि भणिष्यामीति सूचितम्, तच्च सम्यक्त्वं निसर्गादधिगमाच्च भवति । तत्र निसर्गलाभो बहलमिथ्यात्वमलपटलान्तरितत्वाद् दुःषमालोकानां दुर्लभः, गुरूपदेशाच्च साम्प्रतं प्राय उपलभ्यत इति गुरूपदेशमेव तावदादावेवाऽऽह जिणाण धम्मं मणसा मुणेत्ता, सो चेव वायाएँ पभासियव्वो । कारण सो चेव य फासियव्वो, एसोवएसो पयडो गुरूणं ।।२।। जिना:=रागाद्यरातिजयवन्तः, तेषां सम्बन्धिनं 'धर्म' श्रुत-चारित्राख्यम् । तत्र दुर्गतिप्रपतदङ्गिगणधरणात् सुगतौ च धारणाद् धर्मः । उक्तं च दुर्गतिप्रसृतान् जन्तून् यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने तस्माद्धर्म इति स्मृतः ।।८।। अतस्तं 'मनसा' अन्त:करणेन ‘मत्वा' ज्ञात्वा स चैव 'वाचा' वचनेन ‘प्रभाषितव्यः' अत्यर्थं भणनीयोऽन्येषां पुरत इति शेषः । तच्छब्दः पूर्वप्रक्रान्तधर्मवाची । एवशब्दोऽवधारणे, स चैवमवधारयति—जिनधर्म एव भणनीयः, नशाक्यादिसम्बन्धी । यत उक्तं परमगुरुभिः श्रावकवर्णके एस णं देवाणुप्पिया ! निगंथे पावयणे अट्टे, अयं परमट्टे, सेसे अणट्टे । इति अनेन च श्रुतधर्ममाह, तस्य वागोचरत्वात् । ‘कारण शरीरेण स चैव च ‘स्पर्शनीय' अनुचरणीयः । अत्रापि तच्छब्द: पूर्ववत् । 'च:' समुच्चये, स च भिन्नक्रमे स्पष्टव्यश्चेत्यत्र द्रष्टव्यः । ‘एव' अवधारणे, अनेन तु चारित्रधर्ममाह, तस्य हि क्रियारूपत्वात् । द्वितीयश्चकारश्चानुक्तसमुच्चये। स चैतत् समुच्चिनोति आदावागमश्रवणम्, श्रवणानन्तरं च मननम्, तदनन्तरं च शेषाणीति । एषः' अनन्तरोक्तः 'उपदेशः' अनुशासनं 'प्रकटः' प्रसिद्धो 'गुरूणां' यथावस्थितशास्त्रार्थप्ररूपकाणां सम्बन्धीति वृत्तार्थः ।।२।। आदावागमश्रवणं विधेयमित्युक्तं तस्य च महाकल्याणकारकत्वमाह सिद्धंतसाराई निसामयंता, सम्मं उसगासे मुणिपुंगवाणं । पावेंति कल्लाणपरंपराओ, गुणंधरा हुंति वयंति सिद्धिं ।।३।। सिद्धान्त:= सर्वविद्वचनम्, तस्य सारान् सूक्ष्मपदार्थरूपान् ‘निशमयन्तः' शृण्वन्त: ‘सम्यग्' १. ला० 'दादावाह ।। २. ला० कायेन ।। ३. सं० वा० सु० स एव ॥ ४. सं० वा० सु० द्रष्टव्यचे ।। ५. ला० चैवं समु ।। ६. ला० सयासे ।।
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy