________________
मङ्गलादिवर्णनम्
पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् । आज्ञा सिद्धानि चत्वारि न हन्तव्यानि युक्तिभिः ।।६।।
एतच्च प्रतिपादयद्भिस्तैस्तेषां युक्तिपरीक्षणाक्षमत्वमावेदितं भवति । उक्तं च
अस्ति वक्तव्यता काचित् तेनेदं न विचार्यते ।
निर्दोषं काञ्चनं चेत् स्यात् परीक्षाया बिभेति किम् ? ।।७।।
अतस्ताम् । 'नीय लोवमभूया य आणिये' त्यादिप्राकृतलक्षणादिह पूर्वत्र चानुस्वारलोपो द्रष्टव्यः । तथा यां 'अभिनन्दयन्तः' स्तुवन्तः । तथा तथाशब्दस्य समुच्चयार्थत्वात्, तां कुर्वन्तश्च । तदुक्तानुष्ठानकरणात् किम् ? 'नन्दन्ति' नराऽमराऽपवर्गसुखसमृद्धिप्राप्त्या समृद्धा भवन्ति । 'सत्त्वाः ' प्राणिन इति । उक्तः पदार्थः । पदविग्रहोऽपि पदार्थेनैव सहोक्त इति न पृथगुच्यते ।
अधुना चालना-प्र - प्रत्यवस्थाने सममेवोच्येते । ननु किमर्थं सर्वज्ञजिनेन्द्र इति पदत्रयोपादानम् ? सर्वज्ञ इत्युक्ते जिन इति लभ्यत एव । सर्वज्ञस्य हि निःशेषान्तरशत्रुविजयेनैव सर्वज्ञत्वोपपत्तेः । नैवम्, हरि-हर-हिरण्य गर्भादीनामपि परैः सर्वज्ञत्वेनाभ्युपगतत्वाद् मा भूत् तद्वाण्यामपि सम्प्रत्यय इति तन्निषेधार्थं जिनपदग्रहणम् । तर्हि सर्वज्ञजिन इत्येतदस्तु । इन्द्र इत्येतदतिरिच्यते, सर्वज्ञजिनानां शेषदेवापेक्षयेन्द्रत्वात् । सत्यम्, सामान्यकेवलिनामपि सर्वज्ञजिनत्वेनाव्यभिचारादिति तीर्थकरप्रतिपत्त्यर्थमिन्द्रपदोपादानम् । यद्येवं सर्वज्ञेन्द्र इत्येतदस्तु, जिनेत्येतन्निरर्थकम्, सर्वज्ञेन्द्रस्यान्तररिपुविजयेन जिनत्वाद् । अस्त्येवम्, किन्तु शिव - केशव सुरज्येष्ठानामपि तत्पाक्षिकैरेवमङ्गीकृतत्वात् तन्निषेधार्थं जिनपदकरणम् । एवं तर्हि सर्वज्ञ इति पदमपार्थकं जिनेन्द्रस्य सर्वज्ञत्वेनाव्यतिरेकात् । सत्यम्, किन्तु श्रुत-सामान्यावधि-ऋजु मतिमनःपर्यायज्ञानिजिनापेक्षया परमावधिविपुलमतिमन: पर्यायज्ञानिजिनानामिन्द्रत्वाद् मा भूत् तेष्वपि सम्प्रत्यय इति सर्वज्ञपदोपादानमिति स्थितम् । एवमन्यत्रापि चालनाप्रत्यवस्थाने अभ्यूह्ये ।
अत्र च वन्दामीत्यादिनमस्कारकरणस्य पापपङ्कप्रक्षालकत्वेन मङ्गलत्वाद्, मङ्गलस्य च विघ्नविनाशकत्वाद् विघ्नापोहमाह । प्रयोजनं चैहिकमामुष्मिकं च । तदपि श्रोतुः कर्तुश्च । तत्रैहिकं श्रोतुः शास्त्रावगमः, कर्तुश्च सत्त्वानुग्रहः, पारत्रिकमुभयोरपि स्वर्गा ऽपवर्गप्राप्तिः, तदत्र नन्दन्तीत्यनेन प्रतिपादितं द्रष्टव्यम् । अभिधेयं पुनरस्य प्रकरणस्य सम्यक्त्वशुद्ध्यादि, तच्चाभिनन्दयन्त इति, अनेनाऽऽगमस्य च विघ्नविनायकत्वाद् विघ्नाश्रद्धानविषयताम्, कुर्वन्तश्चानेन तदुक्तानुष्ठानकरणं च दर्शयतोक्तं भवति । सम्बन्धश्चास्य शास्त्रस्य वचनरूपापन्नस्योपायत्वाद् दर्शनशुद्ध्यादेश्चोपेयत्वादित्युपायोपेयलक्षणः,
१. बृहत्कल्प सूत्र चूर्ण्यादिप्राचीनग्रन्थेष्वियं गाथेदृश्युपलभ्यते 'नीया लोवमभूया, य आणिया दीहबिंदुदुभावा । अत्थं गर्मेति तं चिय, जोतेसिं पुव्वमेवाऽऽसी ।। २. ला० स्थाने उच्येते ।। ३. सं० वा० सु० 'मपि स' ।। ४. वा० 'ज्ञान' ।। ५. सं० वा० सु० 'पर्याय' ।। ६. सं० वा० सु० 'स्य श्रद्धानविष' ।।