________________
सविवरणे मूलशुद्धि प्रकरणे
सिद्धार्थ सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते ।
शास्त्रादौ तेन वक्तव्यः सम्बन्ध: सप्रयोजनः ।।३।। अत: प्रयोजनादिप्रतिपादनार्थम् । अन्यच्च शिष्टा: क्वचिदिष्टे वस्तुनि प्रवर्तमाना: सन्तोऽभीष्टदेवतानमस्कृतिकरणपूर्वकमेव प्रवर्तन्ते, अत: शिष्टसमयानुपालनमपि न्यायोपपन्नम् । यत उच्यते
शिष्टसमयानुपालनविकलं सच्छास्त्रकरणमपि नैव ।
विद्वजनप्रशस्यं भवति यतोऽसौ समनुपाल्यः ।।४।। इति तत्प्रतिपालनाय चाऽऽदावेव नमस्कारमाह
वंदामि सव्वनजिणिंदवाणी पसन्नगंभीरपसत्थसत्था ।
जुत्तीजुया जं अभिनंदयंता नंदंति सत्ता तह तं कुणंता ।।१।। व्याख्या-सा च संहितादिक्रमेण भवति । यत उक्तम्
समदितपदामादौ विद्वान पदेष्विह संहितां. तदनु च पदं तस्यैवार्थं वदेदथ विग्रहम् । निपुणभणितं तस्याऽऽक्षेपं तथाऽस्य च निर्णयं,
बुधजनमता सूत्रव्याख्या भवेदिति षड्विधा ।।५।। तत्राऽस्खलितपदोच्चारणमेव संहिता । वन्दे सर्वज्ञ जिन इन्द्र वाणीमित्यादीनि तु पदानि । पदार्थः पुन: 'वन्दे' स्तुवे । कम् ? 'सर्वज्ञजिनेन्द्रवाणी' सर्व-समस्तं स्व-परपर्यायभेदभिन्नं पदार्थसार्थं जानाति-बुध्यत इति सर्वज्ञ: निखिलवेदी, रागादिशत्रुजेतृत्वाद् जिना:-सामान्यकेवलिनः, तेषाम् इन्दनाद् अष्टमहाप्रातिहार्याद्यैश्वर्ययुक्तत्वाद् इन्द्रः नायको जिनेन्द्रः तीर्थकृत्, सर्वज्ञश्चाऽसौ जिनेन्द्रश्च सर्वज्ञजिनेन्द्रः, तस्य वाणी-वाक्, अङ्गा-ऽनङ्गादिभेदभिन्ना, ताम् । कथम्भूताम् ? 'प्रसन्नगम्भीरप्रशस्तशास्त्रां' प्रसन्नानि-प्रत्यायकानि सुखावबोधानीत्यर्थः, गम्भीराणि दृष्टजीवाऽजीवादिगम्भीरपदार्थत्वात् परैरलब्धमध्यानि, प्रशस्तानि मंगल्यानि हिंसादिनिवारकत्वात्, शास्त्राणि-ग्रन्था यस्याः सा तथा ताम् । यद्वा प्रसन्न:-जितक्रोधादित्वेनोत्तमोपशमरसवान्, गम्भीरः श्रुतकेवलित्वात् परैरलब्धमध्यः, प्रशस्त:=निःशेषमङ्गलालयत्वात्; शास्ता=प्ररूपक: सूत्ररूपतया गणधरो यस्या: सा प्रसन्नगम्भीरप्रशस्तशास्तृका, ताम् । पुनरपि कथम्भूताम् ? 'युक्तियुतां' युक्त्या उपपत्त्या युता-समेता युक्तियुता, न तु पुराणादिवदाज्ञासिद्धैव । उक्तं च तद्वेदिभि:
१. सं० वा० सु० ज्ञायोप' ।। २. ला० 'वाणीं ।। ३. ला० •णीमित्या' ।। ४. सं० वा० सु० मङ्गलानि ।। ५. सं० वा० सु० यस्यां ।। ६. सं० वा० सु० प्रसन्ना ।। ७. सं० वा० सु० रसा वाग, गम्भी ।।