SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ।। णमो त्थु णं समणस्स भगवओ महइमहावीरवद्धमाण सामिस्स ।। ।। णमो त्थु णं अणुओगधराणं थेरभदंताणं ।। श्रीमद्देवचन्द्रसूरिसन्दृब्धविवरणोपेतं आचार्यश्रीप्रद्युम्नसूरिविरचित्तं 'स्थानकानि' इत्यपरनामकं मूलशुद्धिप्रकरणम् । ॐ नमः सर्वज्ञाय । बालत्वे शैलराजं चलदखिलधरामण्डलं कम्पयित्वा, शुद्धं सम्यक्त्वरत्नं सुरविसरपतेर्मानसे यशकार । तं नत्वा वर्द्धमानं चरमजिनपतिं मूलशुद्धेः स्वशक्त्या, स्पष्टां व्याख्यां विधास्ये निजगुरुचरणद्वन्द्वसद्भक्तियोगात् ।। तत्र सुगृहीतनामधेयो भगवान् श्रीमत्प्रद्युम्नसूरिः श्रमणोपासकप्रतिमासङ्क्षिप्तस्वरूपावबोध बुद्धि(द्धि)श्रावकप्रार्थनात: सझेपत एव तत्स्वरूपमभिधातुकामो मिथ्यात्वान्धकारबहलपटलान्तरितदर्शनान् भूरिभव्यजीवानपि भगवत्सर्ववेदिप्रभुप्रणीतप्रवरप्रवचनप्रतिपादितप्रकारेणोफ्लभ्य तदवबोधकं दिनकर इव भास्वरकरनिकरमादित एव दर्शनप्रतिमायाः किञ्चिद्विशेषस्वभावाविर्भावकं मूलशद्ध्यभिधानं स्थानकानीत्यपरनामकं प्रकरणमारब्धवान् । अस्य च सम्यक्त्वशुद्ध्यादिप्रतिपादनत: स्वर्गापवर्गसंसर्गहेतुभूतत्वेन श्रेयोभूतत्वाद् विघ्नाः सम्भवन्ति । यत उक्तम् श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः ।।१।। इत्यतो विघ्नविनायकोपशान्तये । तथा प्रयोजनादिरहितेऽपि शास्त्रे धीधना न प्रवर्तन्ते, उक्तं च......... सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् । यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यताम् ? ।।२।। तथा१. सं० वा० सु० 'थशुद्धि ।। २. ला० 'बहुल' ।। ३. सं० वा. 'लम्भ त । सु० 'लभत' ।। ४. सं० वा० सु० 'मायां ।।
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy