________________
२०१
मूलदेवकथानकम्
पीढगं फलगं चेव सेज्जा संथारगं तहा ।
धम्मोवगरणं णाणा णाणाईण पसाहणं ।।८४।। 'पीठकम्' आसनम्, ‘फलकं' शयनकाष्ठम्, 'चव'शब्द: शेषभेदसंसूचनार्थः, ‘शय्या' वसति: सर्वाङ्गीणशयनं वा, ‘संस्तारकः' अर्धतृतीयहस्तप्रमाण: कम्बलीमयः, 'तथा' तेनैव प्रकारेण, 'धर्मोपकरणं' धर्मसाधनम्, 'नाना' अनेकप्रकारम्, ज्ञानादीनां ‘प्रसाधनं' कारणम्, देयमिति सम्बध्यते। इति श्लोकषट्कार्थः ।।७९-८४।। साम्प्रतं दानदायिनामिहलोक-परलोकफलसूचकदृष्टान्तान् श्लोकद्वयेनाऽऽह
असणाईण दाणेणं इहई भोगसंपया । इट्ठा दिट्ठा य दिटुंता मूलदेवाइणो बहू ।।८५।। परलोगम्मि सत्थाहो धणो गामस्स चिंतओ ।
सेयंसो चंदणा दोणो संगमो कयउन्नओ ।।८६ ।। 'अशनादीनां' पूर्वोक्तानाम्, ‘दानेन' वितरणेन, ‘इहई' ति अत्रैव जन्मनि, ‘भोगसम्पद्' भोगलक्ष्मी-र्भवतीत्यध्याहारः । अत्राऽर्थे 'इष्टा' अभीप्सिता:, 'दृष्टाश्च' अवलोकिता:, चकारात् श्रुताश्च, ‘दृष्टान्ताः' उदाहरणानि, 'मूलदेवादयः' मूलदेवप्रभृतयः, 'बहवः' प्रभूता इति ।।
___परलोके' अन्यजन्मनि, सार्थवाहो 'धनः' धननामा प्रथमतीर्थकृज्जीवः, 'ग्रामस्य चिन्तकः' पश्चिमतीर्थकरजीव:, 'श्रेयांसः' प्रथमजिनप्रथमपारणकदाता, 'चन्दना' चन्दनबाला गृहीतदुस्तराभिग्रहश्रीवीरजिनपारणककारयित्री, श्रेयांस-चन्दनयोश्च तद्भवापेक्षया मुक्तिपदं परलोकः, तच्च दानफलमित्यभिप्रायः, 'दोणो'त्ति द्रोणनामा कर्मकरः, 'सङ्गमकः' शालिभद्रजीव:, कृतपुण्यकश्च प्रतीतः । एते दृष्टान्ता: पारलौकिकदानफलविषया इति श्लोकद्वयाक्षरार्थः ।।८५-८६।। भावार्थस्तु कथानकेभ्योऽवसेयः । तानि चामूनि, तत्र तावद् मूलदेवकथानकं कथ्यते
-- [२४. मूलदेवकथानकम्] अत्थि पाडलिपुत्तं णाम नगरं, जं च संकेयठाणं पिव रम्मयाए, कुलहरं पिव लच्छीए, मंदिरं पिव समत्थकुसलायाराणं, णिवासो व्व विविहविलासाणं, आगरो व्व सुयणजणरयणाणं, आलओ व्व धम्मस्स, उप्पत्तिभूमि व्व नीसेसविज्जाणं ति । तत्थाऽसेसकलाकुसलो महाविण्णाण
१. ला० ता० सेजंसो ॥ २. ला० तीत्याध्या' ।। ३. ला० ष्टा: ईप्सि' ॥ ४. सं० वा० सु० भूमिव नी ॥