SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ साधुप्रतिपत्तिप्ररूपणा काले पत्ता पत्ताणं धम्मसद्धा- कमाइणा । असणाईण दव्वाणं दाणं सव्वत्थसाहणं ।। ८२ ।। 'काले' प्रस्तावे तस्यैव बहुफलत्वात् । उक्तं च काले दिणस्स पणयस्स अग्घो ण तीरए काउं । तस्सेव अथकपणामियस्स गिण्हंतया णत्थि ।। २६९ ।। 'प्राप्तानां' गृहाङ्गणमागतानाम् 'पात्राणां' विशिष्टगुणवतां क्रयादिनिवृत्तानाम् उक्तं चआरंभणियत्ताणं अंकुणंताणं अकारवेंताणं । धम्मट्ठा दायव्वं गिहीहि धम्मे कयमणाणं ।।२७० ।। (बृ० क० भा० गा० २८०९) 'धर्मश्रद्धा-क्रमादिना' धर्मश्रद्धया च विशिष्टभावोल्लासेन; क्रमेण च देशप्रसिद्धेन, आदिशब्दात् सत्कार-सन्मानादिग्रहः, 'अशनादीनाम्' ओदनादीनाम्, आदिशब्दात् पान-खाद्याऽऽस्वाद्यादिग्रहः । उक्तं च अशनमखिलं खाद्यं स्वाद्यं भवेदथ पानकं, यतिजनहितं वस्त्रं पात्रं सकम्बलप्रोञ्छनम् । वसतिफलकं प्रख्यं मुख्यं चरित्रविवर्धनं, निजकमनसः प्रीत्याधायि प्रदेयमुपासकैः ।। २७१ ।। 'द्रव्याणां' वस्तूनां 'दानं' वितरणम्, यतिभ्य इति गम्यते । पूर्वोक्तगुणकलापोपेतवस्तुभिश्च ये प्रतिलाभयन्ति साधून् त एव धन्याः । यत उक्तम् प्रायः शुद्धैस्त्रिविधविधिना प्राशुकैरेषणीयै:, कल्प्यप्रायैः स्वयमुपहितैर्वस्तुभिः पानकाद्यैः । काले प्राप्तान् सदनमशनं श्रद्धया साधुवर्गान्, धन्याः केचित् परमवहिता हन्त ! सन्मानयन्ति ॥ २७२ ॥ 'सर्वार्थसाधकं' निःशेषार्थकारकम् । उक्तं च — १९९ तर्षेऽम्बु क्षुधि भोजनं पथि रथः शय्या श्रमे नौर्जले, व्याधौ सत्प्रतिचारकौषधभिषक् सम्पद्विदेशे सुहृत् । छायोष्णे शिशिरे शिखी प्रतिभये त्राणं तमिस्त्रे प्रभा, दानं संसरतां भवे प्रतिभवे चिन्तामणिर्देहिनाम् ।।२७३ ।। १. ला० अकिणं ॥ २. सं० वा० सु० 'ष्टस्वभावो ॥ ३. ला० 'द्यादि ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy