________________
साधुप्रतिपत्तिप्ररूपणा
धर्मध्यानानुगतं ' मन:' चित्तम् । यत उक्तम्
रक्षेदं चित्तसद्रत्नं यस्मादन्तर्धनं परम् । धर्मोऽधर्मः सुखं दुःखं यत्र सर्वं प्रतिष्ठितम् ।। २५५ ।।
यदेदं निस्पृहं भूत्वा परित्यज्य बहिर्भ्रमम् । स्थिरं सम्पत्स्यते चित्तं तदा ते परमं सुखम् ।। २५६ ।।
भक्ते स्तोतरि कोपान्धे निन्दाकर्तरि चोत्थिते । यदा समं भवेच्चित्तं तदा ते परमं सुखम् ।। २५७ ।।
१९७
स्वजने स्नेहसम्बद्धे रिपुवर्गेऽपकारिणि । स्यात् तुल्यं ते यदा चित्तं तदा ते परमं सुखम् ।। २५८ ।। शब्दादिविषयग्रामे सुन्दरेऽसुन्दरेऽपि वा ।
एकाकारं यदा चित्तं तदा ते परमं सुखम् ।। २५९ । ।
गोशीर्षचन्दनालेपि-वासीच्छेदकयोर्यदा ।
अभिन्ना चित्तवृत्तिः स्यात् तदा ते परमं सुखम् ।।२६० ।। सांसारिकपदार्थेषु जलकल्पेषु ते यदा ।
अश्लिष्टं चित्तपद्मं स्यात् तदा ते परमं सुखम् ।।२६१ ।। दृष्टेषूद्दामलावण्यबन्धुराङ्गेषु योषिताम् ।
निर्विकारं यदा चित्तं तदा ते परमं सुखम् ।। २६२ ।। यदा सत्त्वैकसारत्वादर्थकामपराङ्मुखम् । धर्मेतं भवेच्चित्तं तदा ते परमं सुखम् ।।२६३।। रजस्तमोविनिर्मुक्तं स्तिमितोर्दधिसन्निभम् । निष्कल्लोलं भवेच्चित्तं तदा ते परमं सुखम् ।। २६४ ।। मैत्री - कारुण्य- माध्यस्थ्य-प्र - प्रमोदोद्दाममानसम् । मोक्षैकतानं स्यात् तदा ते परमं सुखम् ।।२६५।।
यदा
पुनर्मग्रहणं दुष्ट-दुष्टद्विभेदमनसंसूचनार्थमित्युत्तरार्धार्थः । । ७८3० ।।
१. ला० °पि च ॥ २. ला० संसारिषु प० । ३. सं० वा० सु० 'ष्टेषु रूपलाव' ॥ ४. ला०
० दधिसम्भवम् ॥ ५. ला० 'मभावनम् ॥ ६. ला० नं तत् । तदा ।। ७. ला० 'नः सूच' ॥