________________
साधुप्रतिपत्तिप्ररूपणा
तह भवसागरि निवडियह दुलहउ माणुसजम्मु,
तत्थ वि धण्णउ कोइ लहइ जड़ पर जिणवरधम्मु ।।२४७।। इत्यादि ।
एवं च स्थिते ‘महानुभावानाम्' अचिन्त्यशक्तियुक्तानाम् 'मुनीनां' साधूनाम् । 'तम्ह'त्ति तस्मात् । 'यथासमाधि' यथासमाधानं यथासमाधौ वा । ' प्रतितर्पयितव्यं' विनयितव्यं विनयवैयावृत्त्यादिकरणप्रीणनेनेति वृत्तद्वयार्थः ॥ ७२-७३ ।। तदेवं प्रतितर्पणमभिधातुकामो विनयमूलत्वाद्धर्मस्य, उक्तं च
मूलाओं खंधप्पभवो दुमस्स, खंधाओ पच्छा समुविंति साला । साहप्पसाहा विरुहंति पत्ता, तऔ सि पुप्फं च फलं रसो य ।। २४८ ।।
१९५
एवं धम्मस्स विणओ मूलं परमो से मोक्खो ।
जेण कित्तिं सुयं सिग्धं निस्सेसं चाऽभिगच्छइ । । २४९ । । त्ति (द० अ० ९ उ० २ गा० १-२)
विनयं कायवाङ्मनोभेदात् त्रिप्रकारं तावदादौ श्लोकत्रयेणाऽऽह—
कायव्वं तावदिट्ठाणं अब्भुट्ठाणं ससंभ्रमं ।
अंजलीपग्गहो सम्मं, आसणस्स पणामणं । । ७४ ।।
आसणाभिग्गहो चेव, विहाणेण य वंदणं । ठाणट्ठियाण कालम्मि भत्तीए पज्जुवासणा ।। ७५ ।। इंताणं सम्मुहं जाणं, गच्छंताणं अणुव्व ।
काऐणं अट्ठहा एसो विणओ ओवयारिओ ।।७६ ।।
‘कर्तव्यं विधेयं तावद् ‘दृष्टानाम्' अवलोकितानां मुनीनामित्यनुवर्तते । 'अभ्युत्थानम्' आसनादिमोचनम्, 'ससम्भ्रमम्' अत्यादरेण कायतरलतारतया शीघ्रमूर्ध्वभवनम् १ । 'अञ्जलिप्रग्रहः' शिरसि करको रककरणम्, 'सम्यग् ' यथावस्थिततया २ 1 आसनप्रणामनम्=उपवेशनढौकनम् ३ ।
‘आसनाभिग्रहः’ ‘उपवेशनकदाननिश्चयः ४ । चैवशब्द उक्तसमुच्चये । ' विधानेन' पञ्चविंशदावश्यकादिकरणरूपविधिना । उक्तं च
अवणामा दोण्णहाजायं आवत्ता बारसेव उ ।
सीसा चत्तारि गुत्तीओ तिण्णि दो य पवेसणा । । २५० ।।
१. ला० दुलहु ॥ २. तत्थु वि धण्णुउ को विल' ॥ ३. सं० वा० सु० 'ओ से पु° ॥ ४. ता० ता
दि ॥ ५. सं० वा०सु० 'ताणमणु ॥ ६. सं० वा० सु० 'एण अ॥