SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ साधुकृत्याख्यं चतुर्थं स्थानकम् व्याख्यातं तृतीयस्थानकम् । सम्प्रति चतुर्थमारभ्यते, अस्य च पूर्वेण सहाऽयमभिसम्बन्ध: पूर्वत्र पुस्तककृत्यमभिहितम्, पुस्तकानि च साधुमुखात् श्रोतव्यानि साधुभ्यो देयानि साध्वाधाराणि चेति । अतः साधुकृत्यस्थानकम्, तस्य चेदमादिसूत्रम् मुणीण णाणाइगुणालयाणं, समुद्दचंदाइनिदसणाणं । जयं जया जाण जहाणुरूवं, तयं तया ताण तहा विहेह ।।७१।। 'मुनीनां' साधूनाम् । ‘ज्ञानादिगुणालयानां' ज्ञानप्रभृतिगुणावासानाम् । ‘समुद्रचन्द्रादिनिदर्शनानां' सागर-शशधरप्रमुखदृष्टान्तानाम् । “जयंति यकत् । “जय'त्ति यदा । “जाण''त्ति येषाम् । “जहाणुरूवं"ति यथानुरूपं यथायोग्यम् । “तयं"ति तकत् । “तय"त्ति तदा । “ताण"त्ति तेषाम् । “तह"त्ति तथैव । “विहेह"त्ति कुरुतेति वृत्तार्थः ।।७१। कस्मादेवं मुनीनां यथायोग्यं विधेयम् ? इति प्रश्ने प्रत्युत्तरदानार्थं वृत्तद्वयमाहजं जोणिलक्खागहणम्मि भीमे, अणोरपारम्मि भवोवहिम्मि । कल्लोलमाला व सया भमंता, दुक्खं व सोक्खं व सयं सहंता ।।७२।। मणुस्सजम्मं जिणनाहधम्मं, लहंति जीवा खविऊण कम्मं । महाणुभावाण मुणीण तम्हा, जहासमाही पडितप्पियव्वं ।।७३।। 'यद्' यस्मात् । योनिलक्षगहने' चतुरशीत्युत्पत्तिस्थानलक्षगह्वरे, दीर्घत्वमलाक्षणिकम् । भीमे' भयानके। अणोरपारे' अनर्वाग्भागपर्यन्ते । 'भवोदधौ संसारसमुद्रे । 'कल्लोलमालावत्' लहरीसङ्घातवत् । 'सदा' सर्वकालम् । 'भ्रमन्तः' पर्यटन्तः । दुःखं वा सौख्यं वा स्वयम्' आत्मना सहन्तः' अनुभवन्तः । ततश्च ‘मनुष्यजन्म' मनुजभवम् । तदनन्तरं च जिननाथधर्मं 'लभन्ते' प्राप्नुवन्ति, 'जीवा:' जन्तवः। 'क्षपयित्वा' खोटयित्वा, 'कर्म' स्वोपार्जितम् । उक्तं च कम्माणं तु पहाणाए आणुपुव्विं कयाइ उ । जीवा सोहिमणुप्पत्ता आययंति मणुस्सयं ।।२४६ ।। (उ० अ० ३ गा० ७) तथा जह महण्णवमज्झि रुव्विल्लकल्लोलपेल्लिय समिल चलइ वलइ, खलइ धावइ तुडिजोइण पुणु कहवि परिभमंत जुगछिड्ड पावइ । १. सं० वा० सु० ला० वहम्मि ॥ २. ला० अणुपुब्विं उत्तराध्ययनसूत्रे ‘आणुपुव्वी' इत्यस्ति ॥ ३. सं० वा० सु० आययिंति ॥ ४. सं० वा० सु० रुवेल्ल ॥ ५. सं० वा० सु० 'ल वलइ, ॥ ६. ला० पक्खलइ ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy