SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ जिनागमाध्ययनाद्युपदेशः ‘अन्येषाम्' आत्मव्यतिरिक्तानाम्, 'भव्यसत्त्वानां' मुक्तिगमनयोग्यप्राणिनाम्, 'यथाथा - (स्था) म' यथासामर्थ्यम्, 'प्रकाशयेत्' प्रकटीकुर्यात् । यस्मादुक्तं श्रावकवर्णके 'एस णं देवाप्पिया ! णिग्गंथे पावयणे अट्ठे अयं परमट्ठे' इत्यादि । तद्व्याख्यानद्वारेण वा सामर्थ्ये सति प्रकाशयेत् । तथा ‘सर्वं' निःशेषम्, 'व्यापार' गृहकृत्यम्, 'उज्झित्त' त्ति प्रोज्झ्य = त्यक्त्वा, 'कुर्याद्' विधेयात्, ‘स्वाध्यायं' परावर्तनालक्षणम्, 'उत्तम' प्रधानम्, यस्मात् स्वाध्यायेनाप्यागमस्य भक्तिः कृता भवतीति श्लोकार्थः । । ६८ ।। तथा — पुव्वरत्ताऽवरत्तम्मि चिंतेज्जा पणिहाणवं । भावेजा भावणासारं परं अप्पाणमेव य ।। ६९ ।। ‘पूर्वरात्रा -ऽपररात्रे' रात्रिप्रहरद्वयोर्ध्वम्, 'चिन्तयेत्' चेतस्यवस्थापयेत्, आगममित्यध्याहारः प्रणिधानवान्' चित्तसमाधानवान् । तथा 'भावयेत्' परिभावयेत्, 'भावनासारं' भावनाप्रधानम्, ‘परम्’ आत्मव्यतिरिक्तम्, ‘आत्मानमेव च ' स्वयमेव च, अनुप्रेक्षाया अपि स्वाध्यायभेदत्वात्, एतदपि सिद्धान्तकृत्यमेवेति श्लोकार्थः ॥ ६९ ॥ प्रकरणोपसंहारमुपदेशं च वृत्तेनाऽऽह - १९३ एयं जिणिंदागमपोत्थयाणं, किच्चं दिसादंसणमेत्तमुत्तं । सुसावगो सासणभत्तिमंतो, करेज्ज णाऊण जहारिहं ति ।।७० ।। 'ए' ति एतज्जिनेन्द्रागमपुस्तकानाम्, 'कृत्यं' कर्तव्यम्, 'दिसादंसणमेत्तं ' ति दिग्दर्शनमात्रम्, ‘उत्तं’ति उक्तं=प्रतिपादितम् । ततश्च 'सुश्रावक : ' शोभनः श्रमणोपासकः, 'शासनभक्तिमान् ' अर्हद्दर्शनबहुमानवान्, ‘करेज्ज' त्ति कुर्यात्, 'णाऊण 'त्ति ज्ञात्वा = अवबुध्य पूर्वोक्तकृत्यमेव, यथार्हं=यथायोग्यम् । इतिशब्दः प्रकरणपरिसमाप्ताविति वृत्तार्थः ।।७०।। इति श्रीदेवचन्द्राचार्यविरचिते मूलशुद्धिविवरणे तृतीयस्थानकविवरणं समाप्तमिति । १. सं० वा० सु० यथासाम ॥ २. सं० वा० सु० भेदात् ॥ ३. पु० 'त्त वृत्तं ॥ ४. पु० ता० ति ॥ ३२॥ जिणासासणपोत्थयाणं ति तइयं ठाणं ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy