SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ सविवरण मूलशुद्धि प्रकरण तृतीय स्थानके कुज्जागमविहाणेणं पोत्थयाणं च वायणं । उग्गहं च पयत्तेण कुज्जा सव्वण्णुसासणे ।।६७।। 'कुर्याद्' विदध्यात्, ‘आगमविधानेन' सिद्धान्तोक्तन्यायेन, पुस्तकानां च ‘वाचनं' स्वयमुच्चारणम् । चकारोऽनुक्तसमुच्चये, तेन येषामेव पुस्तकानां वाचनेऽधिकारोऽस्ति गृहस्थस्य तान्येव वाचनीयानि, न शेषाणि आज्ञाभङ्गा-ऽनवस्था-मिथ्यात्व-विराधनादिमहादोषकारित्वात् । तत्र चोपधानादिकरणेऽनधिकारित्वात् गृहस्थस्य तद्वाचने आज्ञाभङ्गः, तद्भङ्गाच्च धर्मस्याऽप्यभावः । उक्तं च आणाए च्चिय चरणं, तब्भंगे जाण 'किं न भग्गं ?' ति । आणं वइक्कमंतो कस्साएसा कुणइ सेसं ? ।।२४१ ।। तथा अहिगारिणा खु धम्मो कायव्वो, अणहिगारिणो दोसो । आणाभंगाउ च्चिय धम्मो आणाइ पडिबद्धो ।।२४२।। तथानवस्थापि, उक्तं च एगेण कयमकजं करेइ तप्पच्चया पुणो अण्णो । सायाबहुलपरंपरवोच्छेओ संजम-तवाणं ।।२४३।। (श्रावकधर्मविधि० गा० ३) मिथ्यात्वं च भणिताकरणात्, उक्तं च जो जहवायं न कुणइ मिच्छिद्दिट्ठी तओ हु को अण्णो ? । वढेइ य मिच्छत्तं परस्स संकं जणेमाणो ।।२४४।। विराधनां च देवतादिभ्यः सकाशात् प्राप्नोति, उक्तं च उम्मायं व लभेजा रोगायंकं व पाउणे दीहं । केवलिपण्णत्ताओ धम्माओ वा वि भंसेज्जा ।।२४५।। 'उग्गहं च' त्ति अवग्रहं च-स्वीकारं च, चकाराद् विप्लवादौ महद्यत्नेन रक्षणं च पुस्तकानामिति गम्यते । ‘प्रयत्नेन' बृहदादरेण मञ्जूषादिस्थापनतः । 'कुर्यात्' विदध्यात् । 'सर्वज्ञशासने' विभक्तिव्यत्ययात् सर्वज्ञशासनस्य अर्हद्दर्शनस्येति श्लोकार्थः ।।६७।। तथा अन्नेसिं भव्वसत्ताणं जहाथामं पगासए । सव्वं वावारमुज्झित्ता कुजा सज्झायमुत्तमं ।।६८।। १. सं० वा० सु० आणं च अइवंतो ।।
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy